SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९० धन्वन्तरीयनिघण्टुः [ आम्रादिःकृत्स्वादुतिक्तकम् ॥१०० ॥ अन्यच्च-करीराक्षकपीलूनि त्रीणि स्तन्यफलानि च । स्वादुतिक्तकटूष्णानि कफवातहराणि च ॥ १०१॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गःनिष्पत्रकः करीरश्च करीरग्रन्थिलस्तथा । ककरो गूढपत्रश्च करकस्तीक्ष्णकण्टकः ॥ १६६ ॥ गुणाः-करीरमाध्मानकर कषायं कटूष्णमेतत्कफकारि भूरि । श्वासानिलारोचकसर्वशूलविच्छदिखजूव्रणदोषहारि ॥ १६७ ॥ (३३) करमर्दकम् । करमर्दकमाविग्नं सुषेणं पाणिमर्दकम् । कराम्लं करमदं च कृष्णपाकफलं मतम् ॥ १०२॥ गुणाः-अम्लं तृष्णापहं रुच्यं पित्तकृत्करमर्दकम् । पकं च मधुरं शीतं रक्तपित्तहरं मतम् ।। १०३ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग:करमर्दः सुषेणश्च कराम्लः करमर्दकः । आविग्नः पाणिमर्दश्च कृष्णपाकफलो मुनिः ॥ १६८॥ गुणाः—करमर्दः सतिक्ताम्लो बालो दीपनदाहकः । पक्कस्त्रिदोषशमनोsरुचिनो विषनाशनः ॥ १६९ ॥ (३४) कदम्बः । (नीपकः ) ( शततारका ) कदम्बो वृत्तपुष्पश्च नीपस्तु ललनाप्रियः । कादम्बयङ्कवृक्षोऽन्यः सुवास: कर्णपूरकः ॥.१०४ ॥ धाराकदम्बः प्रावृष्यः कादम्बर्यो हरिप्रियः। नीपो धूलिकदम्बोऽन्यः सुवासो वृत्तपुष्पकः ॥ १०५ ॥ गुणाः—कदम्बस्तु कषायः स्याद्रसे शीतो गुणेऽपि च । व्रणरोहणश्चापि कासदाहविषापहः ॥ १०६ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गःकदम्बो वृत्तपुष्पश्च सुरभिर्ललनाप्रियः । कादम्बर्यः सिन्धुपुष्पो मदान्यः कर्णपूरकः ॥ १७० ॥ गुणाः-कदम्बस्तिक्तकटुकः कपायो वातनाशनः । शीतलः कफपित्तातिनाशनः शुक्रवर्धनः ॥१७१॥ धाराकदम्बः प्रावृष्यः पुलकी भृङ्गवल्लभः । मेघागमपियो नीपः पाटषेण्यः कदम्बकः ॥ १७२ ॥ धूलीकदम्बः क्रमुकासून: १ ङ. छ. 'म्बर्यः सिन्धुपुष्पो मदाढ्यः क । २ ढ. `त्तानां ना' । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy