SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः] राजनिघण्टुसहितः। १८१ गुणाः--परूषकफलं चाम्लं वातनं पित्तकृद्गुरु । तदेव पकं मधुरं वातपित्तनिबर्हणम् ॥ ६३॥ राजनिघण्टावाम्रादिरेकादशो वर्गःपरूपकं नीलपर्ण गिरिपीलु परावरम् । नीलमण्डलमल्पास्थि परुषं च 'परुस्तथा ॥ ८४ ॥ गुणाः-परूपमम्लं कटुकं कफातिजिद्वातापहं तत्फलमेव पित्तदम् । सोष्णं च पकं मधुरं रुचिप्रदं पित्तापहं शोफहरं च पीतम् ॥ ८५ ॥ (१७) तूलम् । तूलं तूदं च यूपं च क्रमुकं ब्रह्मकाष्टकम् । ब्रह्मदारु ब्राह्मणेष्टं ब्रह्मण्यं ब्रह्मचारिणम् ॥ ६४॥ गुणाः—तूलस्य च फलं स्वादु बलवर्णाग्निदृद्धिकृत् । तूलं तु मधुराम्लं स्याद्वातपित्तहरं परम् ॥ ६५ ॥ दाहपशमनं वृष्यं कषायं कफनाशनम् । राजनिघण्टौ प्रभद्रादिर्नवमो वर्ग:तूलं तूदं ब्रह्मकाष्ठं ब्राह्मणेष्टं च यूपकम् । ब्रह्मदारु सुपुष्पं च सुरूपं नीलवृन्तकम् ॥ ८६ ॥ क्रमुकं विप्रकाष्ठं च मृदुसारं द्विभूमितम् । गुणाः-तूलं तु मधुराम्लं स्याद्वातपित्तहरं सरम् । * ॥ ८७॥ (१८) पालेवतम्। पालेवतं रैवतकं ज्ञेयमारेवतं तथा । महापालेवतं चोक्तं रक्तपालेवतं तथा ॥ ६६ ॥ पालेवतं सितं पुष्पैस्तिन्दुकाभफलं मतम् । अन्यन्माणवकं ज्ञेयं महापालेवतं तथा ॥ ६७ ॥ गुणाः—पालेवतं तु मधुरं स्निग्धं हृद्यं समीरजित् । राजनिघण्टावाम्रादिरेकादशो वर्गःपारेवतं तु रैवतमारेवतकं च किंच रैवतकम् । मधुफलममृतफलाख्यं पारेवतकं च सप्ताहम् ॥ ८८॥ गुणाः—पारवतं तु मधुरं कृमिवातहारि वृष्यं तृपावरविदाहहरं च हृद्यम् । मूर्छाभ्रमश्रमविशोपविनाशकारि स्निग्धं च रुच्यमुदितं बहुवीर्यदायि ॥ ८९ ॥ महापारेवतं चान्यत्स्वर्णपारेवतं तथा । साम्राणिजं खारिकं च रक्तरैवतकं च तत् ॥ ९० ॥ बृहत्पारवतं प्रोक्तं द्वीपजं द्वीपखर्जुरी। १ क ङ. ‘त्तलं गुरु । २ क. ङ. दैवतकं । ३ ज. सम्राडनी । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy