SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७८ www.kobatirth.org धन्वन्तरीयनिघण्टुः Acharya Shri Kailassagarsuri Gyanmandir [ आम्रादिः - राजनिघण्टावा म्रादिरेकादशो वर्ग: अन्यो जलमधूको मङ्गल्यो दीर्घपत्रको मधुपुष्पः । क्षौद्रप्रियः पतङ्गः कीरेष्टो गैरिकाक्षश्च ।। ५९ ।। गुणाः मधूकपुष्पं मधुरं च वृष्यं हृद्यं हिमं पित्तविदाहहारि । फलं च वातामयपित्तनाशि ज्ञेयं मधूकद्वयमेवमेतत् ।। ६० ।। (१२) पीलुः ( पीलुक: ) पीलः शीतः सहस्रांशी धानी गुडफलोऽपि च । विरेचनफलः शाखी श्यामः करभवल्लभः ॥ ५१ ॥ गुणाः – रक्तपित्तहरः पीलुः फलं कटु विपाकि च । अर्शोघ्नं वस्तिशमनं सस्नेहं कफवातजित् ।। ५२ ।। पीलुजं च रसं स्वादु गुल्मार्शोघ्नं तु तीक्ष्णकम् । राजनिघण्टावाम्रादिरेकादशो वर्ग: पीलुः शीतः सहस्रांशी धानी गुडफलस्तथा । विरेचनफलः शाखी श्यामः करभवल्लभः ।। ६१ ॥ गुणाः – अङ्काह्नः कटुकः पीलुः कषायो मधुराम्लकः । सरः स्वादुश्च गुल्मार्शः शमनो दीपनः परः ॥ ६२ ॥ अन्यश्चैव बृहत्पीलुर्महापीलुर्महाफलः । राजपीलुर्महावृक्षो मधुपीलुः षडाहयः ।। ६३ ।। गुणाः - मधुरस्तु महापीलुर्वृष्यो विषविनाशनः । पित्तप्रशमनो रुच्य आमनो दीपनीयः ॥ ६४ ॥ (१३ ) खर्जूरी | (खर्जूरम् ) खर्जूरी तु खरस्कन्धा कषाया मधुराग्रजा । दुष्प्रधर्षा दुरारोहा निःश्रेणी स्वादुमस्तका ॥ ५३ ॥ गुणाः---क्षतक्षयापहं हृद्यं शीतलं तर्पणं गुरु । रसे पाके च मधुरं खर्जूरं रक्तपित्तजित् ।। ५४ ।। राजनिघण्टावाम्रादिरेकादशो वर्गः -- For Private and Personal Use Only खर्जूरी तु खरस्कन्धा दुष्प्रधर्षा दुरारुहा । निःश्रेणी च कषाया च यवनेष्टा हरिप्रिया ।। ६३ ।। गुणाः - खर्जूरी तु कषाया च पक्का गौल्यकषायका । पित्तघ्नी कफदा चैव कृमिकृदृष्यबृंहणी || ६६ ॥ १ क. ङ. रा रा । दु ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy