SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ धन्वन्तरीयनिघण्टुः [ आम्रादिः - अन्यच्च - जम्बीरं गुरु नात्यम्लं वातश्लेष्मविवन्धहृत् ।। १६ ।। कटुकमधुरमम्लं सुप्रतीतं रसे स्यादुचिकरमुदरास्तर्पणं चातिसारि । हरति कफसमीरौ पित्तमाहन्ति वीर्यकरणमपि न हृद्यं रक्तपित्तं तनोति ॥ १७ ॥ राजनिघण्टावानादिरेकादशो वर्ग: जम्बीरो दन्तशठो जम्भो जम्भीरजम्भलौ चैव । रोचनको मुखशोधी जाड्यारिर्जन्तु जिन्नवधा ॥ १८ ॥ गुणाः - जम्बीरस्य फलं रसेऽम्लमधुरं वातापहं पित्तकृत्पथ्यं पाचनरोचनं वलकरं विवृद्धिप्रदम् । पकं चेन्मधुरं कफार्तिशमनं पित्तास्रदोषापनद्वर्ण्य वविवर्धनं च रुचिकृत्पुष्टिप्रदं तर्पणम् ।। १९ ॥ मधुजम्बीरः ( जम्बीरविशेषः ) ॥ ३ ॥ अन्यो मधुजम्बीरो मधुजम्वीरफलश्चान्यः । शङ्खद्रावी शर्करकः पित्तद्रावी च पदसंज्ञः ॥ १८ ॥ गुणाः -*मधुरो मधुजम्बीरो शिशिरः कफपित्तजित् । *शोषघ्नस्तर्पणो वृष्यः श्रमन्नः पुष्टिकारकः ।। १९ ।। राजनिघण्टावाम्रादिरेकादशो वर्ग: अन्यो मधुजम्वीरो मधुजम्भो मधुरजम्भलचैव । * ॥ २० ॥ गुणाः । * ॥ २१ ॥ राजनिघण्टावा म्रादिरेकादशो वर्गः निम्बूकः ( जम्बीरविशेषः ) ॥ ४ ॥ निम्बुकः स्यादम्लजम्बीरकाख्यो वह्निर्दीप्यो वह्निबीजोऽम्लसारः । दन्ताघातः शोधनो जन्तुमारी निम्बूकः स्याद्रोचनो रुद्रसंज्ञः ।। २२ ।। गुणाः - निम्बूफलं प्रथितमम्लरसं कदुष्णं गुल्मामवातहर मग्निविवृद्धिकारि । चक्षुष्यमेतदथ कासकफार्तिकण्ठविच्छर्दिहारि परिपकमतीव रुच्यम् ॥ २३ ॥ ( ४ ) नारङ्गः ( नारङ्गम् ) नारङ्गस्त्वक्सुगन्धश्च नागरङ्गो मुखभियः । स चैरावतिकः प्रोक्तो योगी वक्त्राधिवासनः ॥ २० ॥ गुणाः- आम्लं समधुरं हृद्यं विपदं भक्तरोचनम् । वातनं दुर्जरं प्रोक्तं नारङ्गस्य फलं गुरु ।। २१ ॥ १ झ. भुक्तरेचनम् । २ क. ख. ङ. म् । दुर्जरं वातशमनं ना । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy