SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः ] राजनिघण्टुसहितः । १६५ गुणाः - पाके रक्तोत्पलं शीतं तिक्तं च मधुरं रसे । भिनत्ति पित्तसंतापौ ध्वंसयत्यस्रजां रुजम् ।। १५३ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्गः कोकनदमरुणकमलं रक्ताम्भोजं च शोणपद्मं च । रक्तोत्पलमरविन्दं रविप्रियं रक्तवारिजं वसवः ॥ २४१ ॥ गुणाः -- कोकनदं कटुतिक्तं मधुरं शिशिरं च रक्तदोषहरम् । पित्तकफवात - शमनं संतर्पणकारणं वृष्यम् ॥ २४२ ॥ कमलानि – पाथोजं कमलं नर्भ घ नलिनाम्भोजाम्बुजन्माम्बुजं श्रीपद्माम्बुरुहाब्जपद्मजलजान्यम्भोरुहं सारसं । पङ्कजं सरसीरुहं च कुटपं पाथोरुहं पुष्करं वार्ज तामरसं कुशेशयकजे कञ्जारविन्दे तथा ।। २४३ ।। शतपत्रं विसकुसुमं सहस्रपत्रं महोत्पलं वारिरुहम् । सरसिजसलिलजपङ्केरुहरा जीवानि वेदवह्निमितानि ॥ २४४ ॥ गुणाः -- कमलं शीतलं स्वादु रक्तपित्तश्रमार्तिनुत् । सुगन्धि भ्रान्तिसंताप - शान्तिदं तर्पणं परम् ।। २४५ ।। कुमुदम् । ( पुण्डरीकविशेषः ) ॥ २४ ॥ कुमुदं श्वेतजलजमब्जमम्भोजमम्बुजम् । पङ्कजं चारविन्दं च कहारं च कुशेशयम् ।। १५४ ।। 1 गुणाः - *कुमुदं शीतलं स्वादु पाके तिक्तं कफापहम् । रक्तदोषहरं दाहश्रमपित्तमशान्तिकृत् ।। १५५ ।। राजनिघण्टौ करवीरादिर्दशमो वर्ग: धवलोत्पलं तु कुमुदं कहारं कैरवं च शीतलकम् । शशिकान्तमिन्दुकमलं चन्द्राब्जं चन्द्रिकाम्बुजं च नव ॥ २४६ ॥ गुणाः - *। * ॥ २४७ ॥ नीलोत्पलमुत्पलकं कुवलयमिन्दीवरं च कन्दोत्थम् । सौगन्धिकं सुगन्धं कुड्मलकं चासितोत्पलं नवधा ।। २४८ ॥ गुणाः – नीलोत्पलमतिस्वादु शीतं सुरभि सौख्यकृत् । पाके तु तिक्तमत्यन्तं रक्तपित्तापहारकम् ॥ २४९ ॥ उत्पलिनी कैरविणी कुमुद्वती कुमुदिनी च चन्द्रेष्टा । कुवलयिनीन्दीवरिणी नीलोत्पलिनी च विज्ञेया ॥ २५० ॥ गुणाः - उत्पलिनी हिमतिक्ता रक्तामयहारिणी च पीत्तघ्नी । तापकफकासतृष्णाश्रमवमिशमनी च विज्ञेया ।। २५१ ।। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy