________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
धन्वन्तरीयनिघण्टुः
[ करवीरादि :
विकृतिहरं मूलकं बालकं स्यादुष्णं जीर्ण च शोफप्रदमुदितमिदं दाहपित्तास्रदाय ||५८ || आमं संग्राहि रुच्यं कफपवनहरं पक्कमेतत्कद्रूष्णं भुक्तेः प्राग्भक्षितं चेत्सपदि वितनुते पित्तदाहास्रकोपम् । भुक्त्या सार्धं तु जग्धं हितकरबलकृद्वेसवारेण तच्चेत्पकं हृद्रोगशूलप्रशमनमुदितं शूलरुग्घारि मूलम् ॥ ५९ ॥ (१०) शिग्रुः ।
शिनुर्हरितशाकश्च शिग्रुको लघुपत्रकः । अवदंशक्षमो दंशः प्रोक्तो मूलकपर्ण्यपि ।। ३९ ।। सौभाञ्जनस्तीक्ष्णगन्धो मुखभङ्गोऽथ शिशुकः । श्वेतकः श्वेतमरिचो रक्तको मधुशिकः ॥ ४० ॥
गुणाः -- 'शित्रुस्तिक्तः कटुचोष्णः कफशोफसमीरजित् । कृम्यामविषमेदोनो विद्रधिगुल्मनुत् ॥ ४१ ॥
राजनिघण्टौ मूलकादिः सप्तमो वर्ग:
शिग्रुर्हरितशाकश्च शाकपत्रः सुपत्रकः । उपदंशक्षमो दंशो ज्ञेयः कोमलपकः ॥ ६० ॥ बहुमूलो दशमूलस्तीक्ष्णमूलो दशाह्वयः ।
गुणाः- शिशुच कटुतिक्तोष्णस्तीक्ष्णो वातकफापहः । मुखजाड्यहरो रुच्यो दीपनो व्रणदोषनुत् || ६१ ॥
शोभाजनो नीलशिस्तीक्ष्णगन्धो जनप्रियः । मुखामोदः कृष्णशिशुश्चक्षुष्यो रुचिरञ्जनः ।। ६२ ॥
गुणाः - शोभाञ्जनस्तीक्ष्णकटुः स्वादृष्णः पिच्छिलस्तथा । जन्तुवातार्तिशूलघ्नचक्षुष्यो रोचनः परः ।। ६३ ।। श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुखभङ्गः सिताह्वयः । सुमूलः श्वेतमरिचो रोचनो मधुशिशुकः ॥ ६४ ॥
गुणाः श्वेतशिशुः कटुस्तीक्ष्णः शोफानलनिकृन्तनः । अङ्गव्यथाहरो रुच्यो दीपनो मुखजाड्यत् ॥ ६५ ॥ रक्तको रक्तशिग्रुः स्यान्मधुरो बहुलच्छदः । सुगन्धकेसरः सिंहो मृगारिव प्रकीर्तितः ।। ६६ ॥
गुणाः -- रक्त शिशुर्महावीर्यो मधुरश्च रसायनः । शोफाध्मानसमीरार्तिपित्तश्लेमापसारकः || ६७ ॥
( ११ ) सर्षपः ।
सर्षपः शुभ्र गौरस्तु सिद्धार्थो भूतनाशनः । कटुस्नेहो ग्रहन्नस्तु कटुको राजि
काफलः || ४२ ॥
+ ख. पुस्तकेऽयं पाठो दृश्यते
'सौभाञ्जनद्वयं तीक्ष्णं कटु स्वादुष्णपिच्छलम्। सक्षारं वातशोफनं दृष्टिमान्यहरं सरम् ॥ २ झ. ‘खभृङ्गोऽ ं । घ. 'खसंशोधकः शुकः ।
१ झ. दीर्घको ।
For Private and Personal Use Only