SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ धन्वन्तरीयनिघण्टुः [चन्दनादिः*शिलाजतु । ( पुष्पाञ्जनविशेषः ) ॥ २२ ॥ शिलाजतु स्यादतिथिः शैलेयं गिरिजाश्मजस् । जत्वश्मजं चाश्मजं तु प्रोक्तं धातुजमद्रिजम् ॥ १६५॥ गुणाः-*शिलाजतु भवेत्तिक्तं कटूष्णं च रसायनम् । *मेहोन्मादाश्मरीशोफकुष्ठापस्मारनाशनम् ॥१६६॥ क्षयशोकोदराशासि हन्ति वस्तिरुजो जयेत् । राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःशिलाजतु स्यादश्मोत्थं शैलं गिरिजमश्मजम् । अश्मलाक्षाऽश्मजतुकं जत्वश्मकमिति स्मृतम् ॥ २२९ ॥ गुणाः-*। * ॥ २३० ॥ गैरिकम् । (पुष्पाञ्जनविशेषः ) ॥ २३ ॥ गैरिकं रक्तधातुः स्यात्ताम्रधातुर्गवेधुकम् । पाषाणगैरिकं चैव द्वितीयं स्वर्णगैरिकम् ॥ १६७ ॥ पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् । गुणाः-विषदो गैरिकः स्निग्धः कषायो मधुरो हिमः। चक्षुष्यो रक्तपित्तन्नश्छर्दिहिथ्माविषापहः॥ १६८ ।। अन्यच्च-गैरिकं दाहपित्तास्रकफहिक्काविपापहम् । चक्षुष्यमन्यत्तद्बल्यं विशेषाज्ज्वरनाशनम् ॥ १६९ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःगैरिकं रक्तधातुः स्यागिरिधातुर्गवेधुकम् । धातुः सुरङ्गधातुश्च गिरिजं गिरिमृद्भवम् ॥ २३१॥ गुणाः-*गैरिकं मधुरं शीतं कषायं व्रणरोपणम् । *विस्फोटाहॊग्निदाहन्नं वरं स्वर्णादिकं शुभम् ।। २३२ ॥ सुवर्णगैरिकम् । ( स्वर्णगैरिकम् । पुष्पाञ्जनविशेषः ) ॥ २४ ॥ सुवर्णगैरिकं चान्यत्ततो रक्तरजो विदुः । अत्यन्तशोणितं स्निग्धं ममृणं स्वर्णगैरिकम् ॥ १७० ॥ ___ *शिलाजतुशोधनम्-शिलाजतु समानीय सूक्ष्मं रण्डं विधाय च । निक्षिप्यात्युष्णपानीये यामैकं स्थापयेत्सुधीः ॥ १ ॥ मर्दयित्वा ततो नीरं गृह्णीयाद्वस्त्रगालितम् । स्थापयित्वा च मृत्पात्रे धारयेदातपे बुधः ॥ २॥ उपरिस्थं घनं यत्स्यात्तत्क्षिपदन्यपात्रके । एवं पुनः पुनीतं द्विमासाभ्यां शिलाजतु ॥ ३ ॥ भवेत्कार्यक्षम वह्नौ क्षिप्तं लिकोपमं भवेत् । निर्धमं च ततः शुद्धं सर्वकर्मसु योजयेत् ॥ ४॥ + गैरिकशुद्धिः-आम्लक्षारगवांमत्रगैरिक विमलं धर्मत् । क्रमाद्रक्तं च पतिं च सत्त्वं पतति शोधनात् ॥ १॥ अन्यच्च-साधारणरसानामिव शोधनं ज्ञेयम् । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy