SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथ्वीचन्द्र चरितम् 1000000000000000000000000000 तथापि कुग्रहावेशात ते कुमारमवेष्टयन् । स चकोऽपि शरवातैस्तानजैषीत् क्षणादपि ॥ ४९ ॥ रवितेजा नृपस्तत्र तच्छौर्य वीक्ष्य विस्मितः । जज्ञौ विमलकीर्तेस्तं सुतं तन्मित्रवाक्यतः ॥ ५० ॥ जातप्रकृतिरूपं तं रत्नावल्या व्यवाहयत् । स्थित्वा तत्र कियत्कालं प्रतस्थे स्वपुरं च सः॥५१॥ अथ स्वावसथे देवरथो दयितया सह । रत्या स्मर इवाभुत सुखं विषयगोचरम् ॥५२॥ आयासीदन्यदोद्याने तत्र धर्मवसुर्गुरुः । तं वन्दितुं गतो भूपो देशनां चाशृणोदिति ॥ ५३॥ भोः! भव्याः! इह संसारपारावारे हि देहिनाम् । निमज्जतां विशुद्धोऽयं धर्मः पोतसमो मतः ॥५४ ।। रागादिदोषनिर्मुक्तो देवः सर्वज्ञ उच्यते । अदृष्टोऽपि स दृष्टस्तैयस्तद्धर्मो धुरीकृतः ॥ ५५ ॥ भविको योऽत्र सत्पश्चपरमेष्ठिपदस्मृतिम् । करोति नित्यं तस्य स्यानिःश्रेयसपदाश्रयः ॥ ५६ ॥ त्रीन् पञ्च सप्त वा वारानशने शयनेऽपि यः। ध्यायेन्मन्त्राधिराज स स्यादवश्यं सुखास्पदम् ।। ५७ ।। तथाह्यत्रैव भरते ग्रामे सुग्रामनामनि । प्रकृत्या भद्रधीः कोऽपि सङ्गतो नाम पामरः ॥ ५८ ॥ सोन्यदा निशि वासाय मुनिभ्योऽदादुपाश्रयम् । तेऽपि ध्येयतया तस्य परमेष्ठिपदान्यदुः ॥ ५९॥ स तान्याजीवितं स्मृत्वाऽऽयुःक्षये नन्दिपत्तने । पद्मानननृपस्याभूत सुतो रत्नशिखाभिधः ।। ६० ।। स तत्र नृपतिर्भूत्वा राज्यं विन्यस्य मन्त्रिषु । देशान्तरदिदृक्षायै चलितः कलितोद्यमः ॥ ६१ ॥ 93000000000000000000000000 For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy