________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम्
चतुर्थो भवः।
0000000000000000000000६
अत्रैव जम्बूद्वीपेऽथ प्राग्विदेहविभूषणे । सुकच्छविजये आयामही नाम नगर्यभूत ॥ १ ॥ नृपो विमलकीया॑ख्यस्तत्राभूद् विपुलः श्रिया । देवी प्रेमवती तस्य राज्ञः प्रियमतीत्यभूत् ॥२॥ देवसिंहसुरो देवरथस्वमोपमूचितः । आगात् तत्कुक्षिसरसि सुतत्वेन मरालवत् ॥ ३ ॥ स्वमानुसारतो देवरथ इत्यभिधां व्यधात् । पिता तस्य प्रमोदेन तारुण्यं प्राप स क्रमात् ॥ ४॥ इतश्चात्रैव विजये रतिरत्नाह्वये पुरे । रवितेजा नृपस्तस्य रतिदेवीति वल्लभा ॥५॥ कनकसुन्दरीजीवदेवश्च्युत्वा दिवस्ततः । तस्याः कुक्षौ सुतात्वेनावातारीच्छेषपुण्यतः ॥ ६ ॥ रत्नावलीस्वप्मलाभानुभावादभवत् क्रमात् । सुता रत्नावलीत्येषा प्रपेदे यौवनं क्रमात् ॥ ७॥ चतुःषष्टिकलादक्षाऽप्यसौ शिक्षाशतैरपि । कुतोऽपि हेतुतो द्वेषं पुरुषेषु जहौ न सा ॥ ८ ॥ ततो नृपतिनाऽऽरब्धः स्वयंवरमण्डपः । आहूताः सर्वसामन्ताङ्गजास्तत्र समन्ततः ॥ ९ ॥
00000000000000000000000
For Private and Personal Use Only