SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरितम्। थ्वीचन्द्र तृतीयो भवः। BO00000000OGO0000000000000 अथात्र मुरसेनाइदेशेऽस्ति मथुरापुरी । तत्र मेघनृपो नीत्या मां भुनक्ति त्रिशक्तियुक ॥१॥ अर्धाङ्गसङ्गिनी तस्य विमला मुगुणान्विता । मुक्तावलीव सुभगा देवी मुक्तावलीत्यभूत ॥२॥ तया दयितया युक्तस्तडितेव लसद्चा । मेघो मेघ इवाशेषं तापं पाशमयद् विशाम् ॥ ३ ॥ अन्यदा वासभवनं प्रविशन् मेघभूपतिः। दृष्ट्वा शशिमुखी साश्रुमुखी पप्रच्छ कारणम् ॥ ४ ॥ सा प्राह किं तया नाथ ! रूपसौभाग्यसंपदा । यदङ्कसङ्गतो रङ्गादङ्गभूर्नाङ्ग ! खेलति ॥ ५ ॥ श्रत्वेति भूविभुः स्माह दैवायत्तमिदं पिये ! । नहि केनापि दुर्लक्या लङ्घयते भवितव्यता ॥६॥ राज्ञी प्राह तथाप्यत्र कोऽप्युपायो विधीयते । भाग्ययोगेऽपि यत् साध्यं फलमुद्योगयोगतः ॥७॥ मणिमन्त्रौषधीनां यदचिन्त्यो महिमाऽस्ति हि । देवताराधनाद् यद्वा प्राप्यते चिन्तितं फलम् ॥ ८ ॥ निशम्य सम्यक तद् देव्या गदितं भूपुरन्दरः। प्राह प्रिये ! शुचं मुश्च करिष्ये त्वत्समीहितम् ॥९॥ इति देवीं समाश्चास्यान्यदा साहससेवधिः । नृपः कृष्णचतुर्दश्यां निशि प्रेतवनं ययौ ॥ १० ॥ 9000000000000000000 For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy