SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org थ्वीचन्द्रा चरितम्। 3000000000000000000000000 स्मरान्धस्य ततो भूमिधवस्याभ्रश्यदासा । धर्मधीर्मनसोऽशेषा किमकृत्यं हि कामिनाम् ? ॥ ६३ ॥ यतः -कामान्धो न भवेद् यावद् धीमांस्तावत् पुमानिह । इलापुत्रो नटीसक्तः स्वकुलं ह्यकलङ्कयत् ॥ ६४ ॥ एकतः कुलमालिन्यमन्यतो मदनव्यथा। ततो व्याघ्रतटीन्यायाद् दुःखितोऽभूत् तदा नृपः ॥ ६५ ॥ दथ्यौ च वणिजस्तस्य दोषमुत्पाद्य कञ्चन । आदास्ये तस्य ताः कान्ता जने नेत्ययशोऽपि मे ॥६६॥ निश्चित्येत्यवदद् भूपः पुरोधसमसौ रहः। कृत्वा शाठ्येन भोः ! मैत्री महेभ्ये विनयन्धरे ॥ ६७ ॥ लेखयित्वाऽमुना भूर्जे श्लोकमेनं रहो मम । समर्पय तथा भद्र ! यथा वेत्ति न कश्चन ॥ ६८ । (युग्मम् ) यथा-अद्याभाग्यनियोगेन त्वद्वियोगेन सुन्दरि !। शर्वरी सा त्रियामाऽपि शतयामेव मेऽभवत् ॥ ६९ ॥ इति राज्ञोदितः सोऽथ पुरोधा विनयन्धरे । कृत्वा मैत्री लेखयित्वा श्लोकं तं नृपतेर्ददौ ॥ ७० ॥ नृपोऽप्यनुष्टुभं तं च भूर्जपत्रे स्थितं ततः । निबध्य गन्धपुटके चेव्याथानाययत् सदि ॥ ७ ॥ तं श्लोकं दर्शयित्वाऽथ पौरामात्यान् नृपो जगौ । देव्या गन्धपुटेऽलेखि केनायं तत्परीक्ष्यताम् ।। ७२ ।। लिपीन् परीक्ष्य सर्वेषां संवादं विनयन्धरे। समवेत्येति चित्ते ते दध्युरक्षामबुद्धयः ।। ७३ ॥ दुग्धे पूतरका न स्युरस्मिन् दोषास्तथा ध्रुवम् । प्रत्यक्ष लक्ष्यते चैतत् तत्किश्चिद् भावि कारणम् ।। ७४ ॥ ऊचुस्ते नृपते ! हारहरारामे रमेत यः। नासौ करी करीरेषु कुरुते कहिचिद् रतिम् ।। ७५ ॥ 0000000000000000000ळकल For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy