SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वितीयो भवः । अथास्त भरतक्षेत्रे मणिपिङ्गलमण्डले । पोतनाह्वपुरं तत्र नृपः शत्रुञ्जयाभिधः || १ || वसन्तसेना तस्यासीद् राज्ञी लक्ष्मीर्हरेरिव । शचीव पुरुहूतस्य मृडानी धूर्जटेरिव ॥ २ ॥ स शङ्खनृपजीवोऽथ मराल इव मानसे । प्राप्तपद्माकरस्वमात् तस्याः कुक्षाववातरत् ॥ ३ ॥ गर्भानुभावतो दीनादीनां दानैकगोचरः । सञ्जातो दोहदो देव्याः सद्यो भूपोऽप्यपूरयत् ॥ ४ ॥ रवि प्राची सद्रत्नं रोहणोर्वीव सा सुखात् । प्रसूता भुवनानन्ददायकं दारकं क्रमात् ॥ ५ ॥ पितो नृपो दास्याददेऽस्याः पारितोषिकम् । जनहर्षावहं चापि व्यधाज्जन्ममहामहम् || ६ || कमलाकरसुस्वद्मानुसारान्निर्ममे नृपः । तस्याह्नां कमलसन इति सूनोः परिस्फुटम् ॥ ७ ॥ शुक्लपक्षे शशीवासौ क्रमाद् बुद्धिमथाप्नुवन् । त्यक्तबाल्यवयाः प्रापद् यौवनं पावनं वयः ॥ ८ ॥ स परं प्राग्भवाभ्यासाद् विमुखो विषयेष्वभूत् । प्राग्भवीयो हि संस्कारो यज्जन्तूननुवर्त्तते ॥ ९ ॥ सोऽन्यदा बहुधाऽभ्यस्यन् सततं सकलाः कलाः । क्रीडायै सखिभिः साकं प्रययौ नन्दनं वनम् ॥ १० ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 0000 ॥११॥
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy