SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीचन्द्र www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्रान्तरे वगाह्नः कुमारसचिवोऽवदत् । देवास्मत्स्वामिनोऽग्रेऽवक् दत्तोऽयं त्वद्गुणांस्तथा ॥ ७६ ॥ यथा त्वद्गुणरक्तासौ प्रेषि पित्रा कलावती । स्वयंवरास्या यद् रेमे त्वां विना न मनः कचित् ॥ ७७ ॥ ( युग्मम् ). गृहाण पाणिना पाणि तदेतस्याः प्रमोदतः । न कदाप्यनया दृष्टं स्वमातुरपि विप्रियम् ॥ ७८ ॥ तथा विदध्यास्तद्देत्र ! परप्रेम्णा यथोचितम् । यथा करेणुर्विन्ध्यं वा नेयं ध्यायेत् पितुर्गृहम् ॥ ७९ ॥ अथ श्रीशङ्खभूपोsaगहो ! विजयभूपतेः । चित्तं चित्रं यदस्माकमप्यरजि गुणैरिह || ८० ॥ शिशवोऽपि वयं तातविरहान्नृपतेः पदम् । संप्राप्ताः स्मः किमियता सआता गुणिनां धुरि ॥ ८१ ॥ तदेतस्य गुणांभोधेर्विजयक्ष्माभुजो मया । वचो विधेयमेवेत्याजूहवल्लाग्निकान्नृपः ॥ ८२ ॥ निर्णीते वासरे वयतूर्यनृत्यमहामहम् । विवाहं araध्वोश्वाचीकरद्धरणीशभूः ॥ ८३ ॥ गजवाजिरथस्वर्णाद्यदात् स करमोचने । जयसेनकुमारोऽस्थात् तत्राहानि कियन्त्यपि ॥ ८४ ॥ श्रीशङ्खनृपमापृच्छय कुमारोऽथ सगद्गदम् । कृतानुगमनो राझा देवशालमगात् क्रमात् ॥ ८५ ॥ कलावत्याः कला काचिदपूर्वैव विभाव्यते । विशालमपि भूपस्य ययारोधि गुणैर्मनः ॥ ८६ ॥ अन्यदा सुखसुप्ता सा निशि श्रीखण्डचर्चितम् । पुष्पदामार्चितं क्षीरोदधिनीरेण पूरितम् ॥ विकोशपद्मपिहितं निजोत्सङ्गतलस्थितम् । स्वमे वीक्ष्य मृगाक्षी सा हेमकुम्भमजागरीत् ॥ ८७ ॥ ८८ ॥ ( युग्मम् ). For Private and Personal Use Only 0000 चरितम् ।
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy