SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वीचन्द्र www.kobatirth.org पुरःस्थः सार्थ लोकानां यामि यावन्महावने । तावत् किञ्चित् समासनं मृताश्वं पतितं भुवि ॥ २८ ॥ सर्वाङ्गभद्रमद्राक्षमेकं विगतचेतनम् । नरं मूर्च्छासमुच्छ्रायनिमीलितविलोचनम् ॥ २९ ॥ ( चतुर्भिः कलापकम् ) ३४ ॥ तं च मूर्च्छापनोदायासिञ्चं शिशिरवारिणा । क्रमादवाप्तचैतन्यं भव्यभोज्यान्यभोजयम् ॥ ३० ॥ अथ स्वस्थतनुं व्रं चापृच्छं मधुरया गिरा । कुमार ! सुन्दराकार ! कुतः स्थानात् त्वमागमः ? ॥ ३१ ॥ संप्राप्तः कथमेकाकी गहनेऽस्मिन् दशामिमाम् । सोऽप्याख्यन्न भविष्यस्य काचिदस्ति प्रतिक्रिया ॥ ३२ ॥ यदहं देवनन्द्याह्नदेशादश्वापहारतः । अत्रायातस्त्वया प्राणदानेनोपकृतोऽस्मि च ॥ ३३ ॥ ब्रूहि भोभद्र ! कुत आगाः क यास्यसि ? | दत्तोऽप्याख्यदहं शङ्खपुरादत्र समागमम् ॥ देशभूषणं देवशालं गन्तास्मि चाधुना । सार्थोऽभूदावयोरेकस्तदारोह हयं जवात् ॥ उत्तीर्य यदिमां भीमामटवीं याव ईप्सितम् । स्थानमित्युक्तिनिष्णातौ चलितौ तौ ततः शनैः ॥ अतिक्रमावः कान्तारं यावत् सार्थेन संयुतौ । तावत् पुरो महत्सैन्यमपश्याव समागतम् ॥ क्षुब्धाः सार्थभटाः सर्वे सन्नद्धा योद्धुमागमन् । तावन्मा भैष्टेति वादी सादी कोऽपि पुरोऽभवत् ॥ जयसेनकुमारं सोऽप्युपलक्ष्याभजन्मुदम् । विज्ञाततत्स्वरूपोऽथ तत्रागाद् विजयो नृपः ॥ ३५ ॥ ३६ ॥ ३७ ॥ ३८ ॥ ३९ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चरितम् ।
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy