________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२ २८६. वृश्चिके श्वेचुवा । २. १६.। वृश्चिके श्वेः सस्वरस्य स्थाने
चुरादेशो वा भवति, [ छापवादः] । विचुओ, विंचुओ. पक्षे- विग्छिओः॥ २८८. छोऽध्यादौ । २. १७. । अक्ष्यादिषु संयुक्तस्य छो भवति,
[खस्यापवादः] अच्छि, अक्षि; सारिच्छो. सदृक्ष; कुच्छी. कुक्षि; . छुरो. क्षुर; उच्छु. इक्षु; वच्छो. वृक्ष वच्छं. वक्षस्; उच्छा. उझन् लच्छी. लक्ष्मी, मच्छिआ. मक्षिका; छुण्णो. क्षुण्ण; छयं. क्षत; कच्छो. कक्षा छत्तं. क्षेत्र कच्छा. कक्षा. सारच्छ.सादृश्य; छीअं. क्षुत् छुहा. क्षुध् । छारो. क्षार; क्वचित् स्थगितछीरं. क्षीर; दच्छो. दक्ष; कुच्छेअयं. कौक्षेयकाशब्देपि-छइ.
आर्षे- इक्खू. खीरं. सारिखं. इत्याधपि दृश्यते ॥ २८९. क्षमायां कौ । २. १८. । कौ-पृथिव्यां वर्तमाने क्षमाशब्दे
संयुक्तस्य छो भवति । छमा, [पृथिवी ] लाक्षणिकस्यापि क्षमादेशस्य भवति- मा; छमा.
'को' इति किम् ? खमा, [क्षान्तिः ] ॥ २९०. ऋक्षे वा । २. १९. । ऋक्षशब्दे संयुक्तस्य छो वा भवति ।
रिच्छं, रिक्वं. रिच्छो, रिक्खो। कथं छूढं-क्षिप्तम् ? ' ३१८. वृक्ष-क्षिप्तयो रुक्खन्छुढौ " इति
भविष्यति ॥ २९१. क्षण उत्सवे । २.२०.। क्षणशब्दे उत्सवाभिधामिनि संयुक्तस्य
छो भवति । छण्णो. ' उत्सवे' इति किम् ? खणो. ॥ २९२. ह्रस्वात् थ्य-श्व-त्स-प्सामनिश्चले । २. २१. । हस्वात्परेषां
ध्यश्चत्सप्सां छो भवति, निश्चले 'तु' न भवति । थ्य- पच्छं. पच्छा. मिच्छा. ।
For Private and Personal Use Only