SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उक्तं मोहनीयम्, आयुष्कमाह ( पारमा० ) षण्णामपि भवति 'विपाकः' उदयो मिथ्यात्वाद्यावदपूर्वकरणस्य चरमसमय इति । परतो निवृत्तिबादरतोऽनिवृत्तिवादरादिषु पुनर्नास्ति विपाकः षण्णामपि । इति गाथार्थः ॥ ६१ ॥ । अथ मोहनीयं निगमयन्ना युष्कर्मप्रस्तावनामाहभणिओ मोहविवागो, आउयकम्मं तु पंचमं भणिमो । तं होई चउपयारं, नरतिरिमणुदेव भेएहिं ॥ ६२ ॥ व्याख्या- 'भणित:' प्रतिपादितः 'मोहविपाकः' मोहनीयोदयः । 'आयुष्कर्म तु' उक्तखरूपं 'पश्चमं' संख्यया 'भणिमो' इति प्रतिपादयामः साम्प्रतम् । तदपि' आयुष्कर्म 'चतुष्प्रकारमेव, हुशब्दस्यैवकारार्थत्वात् कथम् ? |इत्याह-- 'नरतिरिमणुदेवभेदैः' नारकतिर्यङ्मनुष्यदेव भेदरूपमायुः । नरशब्देन नरकायुर्गृह्यते । मनुष्येति | पृथगुपादान्नरकेति नोक्तं गाथाभङ्गभयात् । इति गाथार्थः ॥ ६२ ॥ ननु किमायुः सुखदुःखे प्रयच्छति । उत न ? इत्याह ( पारमा० ) भणितो मोहविपाकः । आयुष्कर्म पञ्चमं भणामः । तद्भवति चतुष्प्रकारं, नरेति नरकायुः, उत्तरत्र मनुष्यायुषः पृथगुपादानात्सूत्रस्य सूचकत्वाच्च । तिरिति तिर्यगायुः, मन्विति मनुष्यायुर्देवायुपश्च भेदैः प्रकारैः । इति गाथार्थः ॥ ६२ ॥ १ व्याख्याकारेण तु "तंपि हु चउप्पयारं" इति पाठानुसारेण व्याख्यातम् ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy