SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दर्शनावरणीयस्य भेदानाह ( पारमा० ) यथा राजा तथा जीवः, राजस्थानीयो जीव इत्यर्थः । प्रतीहारसमं दर्शनावरणं कर्म तेन, 'इह' संसारे 'विबन्धकेन' अननुकूलेन न प्रेक्षते 'सः' जीवो घटादिकम् । अयमाशयः - यथा राजा प्रतीहारेणाऽननुकूलेन दिदृक्षितमपि लोकं न पश्यति, तथा राजस्थानीयो जीवः प्रतीहारस्थानीयेन दर्शनावरणेनाऽननुकूलेन लोकस्थानीयं घटपटादिवस्तु न पश्यति । इति गाथार्थः ॥ २१ ॥ उक्तः पूर्वोद्दिष्टः प्रतीहारदृष्टान्तः, दर्शनावरणस्य सम्प्रति नवविधत्वं गाथापूर्वार्द्धनाह - निदापणगं तत्थ उ, चउ भेया दंसणस्स आवरणे । व्याख्या - निद्रापञ्चकं, 'तत्र तु' दर्शनावरणे चत्वारो भेदाः, दर्शनस्य संबन्धिनि 'आवरणे' छादने ॥ दर्शनावरणभेदानमिधाय निद्रादिलक्षणमाह Acharya Shri Kailassagarsuri Gyanmandir ( पारमा० ) 'निद्रापञ्चकम् निद्रा-निद्रानिद्रा-प्रचलाप्रचलाप्रचला - स्त्यानर्द्धिलक्षणम् । 'तत्र' दर्शनावरणकर्मणि 'चत्वारो भेदाः' चक्षुर्दर्शनावरण- अचक्षुदर्शनावरण-अवधिदर्शनावरण- केवलदर्शनावरणलक्षणाः, दृश्यतेऽनेनेति दर्शनं तस्य आवरण इति । दर्शनावरणकर्मणो भेदानभिधाय सार्द्धगाथाद्वयेन निद्रापञ्चकं तावद्वमाचष्टे सुहपडिबोहो निदा, बीया पुण निदनिदा य ॥ २२ ॥ १ व्याख्याकाराभिप्रायेण - "सुहबडिबोहा" इति पाठः । For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy