________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टाकाव्यापेतम् ॥
षडशीतिप्रकरणम्॥२०२॥
तदेवमभिहितं गुणस्थानकवर्तिनां जीवानामल्पबहुत्वम् , तदभिधानाच्च यत् 'वोच्छामि जीवमग्गण' इत्यादि प्राप्रतिज्ञात तदपि समर्थितम् । साम्प्रतं जिनवचनानुसारिप्रकरणमिदमित्येतत्प्रकरणश्रवणादिक्रियासु वर्तमानानां जीवानामेकान्तेन क्षा हितसंप्राप्तिमुत्प्रेक्षमाण आचार्यों निजान्वर्थनामोत्कीर्तनपूर्वकं जिनशासनगौरवख्यापनपूर्वकं च परेषामुपदेशमाहजिणवल्लहोवणीयं, जिणवयणामयसमुद्दबिंदुमिमं । हियकंखिणो बुहजणा,निसुणंतु गुणंतु जाणंतु ॥८॥
॥ इति षडशीत्यपरपर्यायागमिकवस्तुविचारसारप्रकरणम् ॥ (हारि०) व्याख्या-जिनो वल्लभो यस्य स तथा तेनोपनीतस्तम् , इत्यनेन प्रकरणादेयतामाह-भवति हि यथोक्तान्वर्थनाम्ना पुरुषविशेषेणोपनीते वस्तुनि बुधजनानामादेयताबुद्धिः, एतदेव च प्रस्तुतप्रकरणकर्तुरभिधानम् । जिना रागादिवैरिवारजेतारः तेषां वचनमागमः तदेवामृतं त्रिदशाहारः तस्य समुद्र सिन्धुःतस्य बिन्दुरिवबिन्दुस्तम् । इमं प्रस्तुतप्रकरणरूपं हितकाङ्गिणः' मोक्षाभिलाषिणो 'वुधजना' पण्डित लोकाः 'निशृण्वन्तु' आकर्णयन्तु 'गुणयन्तु' परावर्तयन्तु 'जानन्तु' बुध्यताम् । इति गाथार्थः ॥८६॥
॥इत्यागमिकवस्तुविचारसारप्रकरणवृत्तिः समाप्ता ॥ (मल०) सुगमम् ॥८६॥
॥इति श्रीमन्मलयगिरिसूरिविरचिता पडशीतिप्रकरणवृत्तिः समाप्ता।
PICSH-
-
For Private And Personal Use Only