________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्॥ १९५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मित्तं वा यद्धसनं तद्धास्यम् । बाह्याभ्यन्तरेषु वस्तुषु प्रीती रतिः । तेष्वेवाप्रीतिररतिः । भयं त्रासः । परिदेवना दिलिङ्गः ४ टीकाद्वयोशोकः । सचेतनाचेतनेषु वस्तुषु व्यलीककरणं जुगुप्सा इति । योगाः पश्चदश, ते च सर्वेऽपि प्राक् प्रतिपादित स्वरूपाः ॥७५॥७६॥ पेतम् ॥ मूने बन्धहेतून गुणस्थानकेषु चिन्तयन्नाह
पेणपन्न पेन्नतियछेहिय चत्ते उणचत्त छचंड दुगवीसा। सोलेसदें सने वने वसते हेउणो न उ अजोगिम्मि ७७
( हारि० ) व्याख्या - अस्याः केनाप्यभिप्रायेण सूत्रकारेण पद्विवर्णं न कृतम्, तच्च यथावबोधमस्माभिः शास्त्रानुसारेण लिख्यते - तत्र सामान्येन पूर्वोक्ताः सप्तपञ्चाशदुत्तरभेदा बन्धहेतवो भवन्ति ५७ । ततो मिथ्यादृष्टेराहारकतन्मिश्रवर्जनात्पञ्चपञ्चाशदेवं मन्तव्याः, तद्वर्जनं तु संयमवतस्तत्सद्भावादिति ५५ । तथा पूर्वोक्तायाः पञ्चपञ्चाशतो मिथ्यात्वपञ्चकेऽपनीते सासादनस्य पञ्चाशद्रष्टव्याः ५० । सम्यग्मिथ्यादृष्टस्तु परलोकगमनाभावात्कार्मण औदारिकमिश्रं वैक्रियमिश्रं च न संभवति, अनन्तानुबन्ध्युदयस्य चास्य निषिद्धत्वात्, अनन्तानुबन्धिचतुष्टयं च नास्ति, अत एतेषु सप्तसु पूर्वोक्तायाः पञ्चशतोऽपनीतेषु शेषास्त्रिचत्वारिंशदुउत्तरभेदा भवन्ति ४३ । तथाऽविरतस्य परलोकगमनसंभवात् पूर्वापनीत कार्मणौदारिकमिश्रवैक्रियमिश्रत्रये पूर्वोक्तत्रिचत्वारिंशति पुनः प्रक्षिसे षट्चत्वारिंशद्भेदा भवन्ति ४६ । तथा देशविरतस्याप्रत्याख्यानावरणोदयस्य निषिद्धत्वादप्रत्याख्यानावरणचतुष्टयं तथा विग्रहगतावपर्याप्तावस्थायां च देशविरतेरभावात् कार्मणौदारिक मिश्रयं त्रसासंयमान्निवृत्तत्वात् त्रसासंयमश्च न संभवति, अत एतानि पूर्वोक्तायाः षट्चत्वा
For Private And Personal Use Only
॥ ७९ ॥