SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडशीतिप्रकरणम् ॥१९२॥ RECORRESEARCOASARANGOfte न' व 'इह' अस्मिन् प्रकरणे 'अधिकृतं' अभ्युपगतम्, किंत्वज्ञानमेवाधिकृतं कर्मग्रन्थाभिमायस्येहाश्रित-टीकाद्वयोत्वादिति संबन्धः। तथा वैक्रियाहारके' वैक्रियाहारककरणे औदारिकमिश्रमित्यपि नाधिकृतम्, किन्तु वैक्रि- पेतम् ॥ यमिश्रमाहारकमिश्रं चाधिकृतम्, तस्यैव प्रधानत्वात् । तथा 'न' नैवैकेन्द्रियेषु'सासाणो' इति लिङ्गव्यत्ययात्सासादनमिति न चाधिकृतम्, किन्त्वेकेन्द्रियेषु सासादनमधिकृतं तत एव हेतोः। इति गाथार्थः॥७२॥ इतो लेश्यास्तेष्वेवाभिधित्सुराह| (मल.) 'सासादनभा ससादनसम्यग्दृष्टित्वे सति ज्ञानं भवति, नाज्ञानमिति । 'श्रुतमतमपि' सूत्रसम्मतमपि, तथाहि-“बेइंदियाणं भंते ! किं नाणी अन्नाणी? गोयमा! णाणीवि अण्णाणीवि । जे नाणी ते नियमा दुनाणी। तंजहा-आभिणिबोहियनाणी सुयणाणी । जे अण्णाणी ते वि नियमा दुअन्नाणी । तंजहा-मइअन्नाणी सुयअन्नाणी य॥" इत्यादि सूत्रे द्वीन्द्रियादीनां ज्ञानित्वमभिहितम् , तच्च सासादनसम्यक्त्वापेक्षयैव न शेषसम्यक्त्वापेक्षया, असंभवात् । उक्तं च प्रज्ञापनाटीकायाम्-"बेइंदियस्स दो णाणा कहं लब्भंति , भण्णइ, सासायणं पडुच्च तस्सापज्जत्तयस्स दो णाणा लभंति" इति । ततः सासादनभावेऽपि ज्ञानं सूत्रे सम्मतमेव, तच्चेत्थं सम्मतमपि नेह प्रकरणेऽधिकृतं ॥७६॥ किंत्वज्ञानमेव, कार्मग्रन्थिकाभिप्रायस्यानुसरणात् । तदभिप्रायश्चायम्-सासादनस्य मिथ्यात्वाभिमुखतया तत्सम्यक्त्वस्य मलीमसत्वेन तन्निबन्धनस्य ज्ञानस्यापि मलीमसत्वादज्ञानरूपतेति । तथा सूत्रे वैक्रिये आहारके चारभ्यमाणे तेन प्रारभ्यमाणेन सहौदारिकस्य मिश्रीभवनात्, औदारिकमिश्रमुक्तम् । तथा चाह प्रज्ञापनाटीकाकारः-यदा पुनरौदारिक 4% C4O For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy