________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
C
NAGACASSACAN
आदिमा च वागसत्यामृषा सत्या चेत्यर्थः, ततश्चरमादिमनोवाग्द्विके च कार्मणं चौदारिकदिकं चौदारिक||शरीरतन्मिश्रलक्षणं चरमादिममनोवाग्द्विककार्मणीदारिकम्, इत्येते सप्तेति संबन्धः, योगा भवन्ति । कस्य ? इत्याह-'योगिनः' सयोगिकेवलिनः। तत्र मनोद्विकं दूरदेशस्थमनःपर्यायज्ञानादिषु द्रव्यमनोव्यापारणात् । वाग्द्विकं देशनादावुपयोगात् । कार्मण औदारिकमिश्रश्च केवलिसमुद्धातेऽष्टसामयिके यथासंभवमौदारिकश्च चमणादौ द्रष्टव्य इति, तथा गतयोगश्चायोगीति । इति योजिता योगा गुणस्थानकेषु २। वक्ष्येऽभिधास्येऽत ऊर्च, कान् ? उपयोगान् प्राकप्रतिपादितखरूपान्, कियतः? द्वादश गुणस्थानकेष्विति प्रक्रमः। इति गाथार्थः॥ ६९ ॥
प्रस्तावितमेवाह(मल०) चरमादिमरूपं मनोद्विकं चरमादिमरूपं च वाग्दिकं कार्मणमौदारिकतन्मिश्रलक्षणमौदारिकद्विकं चेति सप्त योगाः 'योगिनः' सयोगिकेवलिनो भवन्ति । तत्र चरमं मनोऽसत्यामृषा, आदिम सत्यम् , एवं चरमादिमे वाचावपि द्रष्टव्ये। कार्मणौदारिकमिश्रे तु समुद्धातावस्थायामिति । “गयजोगो उ अजोगी' इति अयोगी अयोगिकेवली गतयोग एव भवति, योगाभावनिबन्धनत्वादयोगित्वावस्थायाः, तुशब्द एवकारार्थः, तदेवमभिहिता गुणस्थानकेषु योगा। साम्प्रतमेतेष्वेवोपयोगानभिधातुकाम आह–'वोच्छमओ' इत्यादि । वक्ष्येऽभिधास्येऽत ऊर्ध्व गुणस्थानकेषु द्वादश उपयोगान् ६९
तानेवाह
AMERASAC
For Private And Personal Use Only