________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्
॥ १८९॥
दनेऽविरते च । इति गाथार्थः ॥ ६६ ॥
तथा
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( मल० ) ' इतिः' एवमुपदर्शितेन प्रकारेण जीवस्थानकानि गुणस्थानकेषु द्रष्टव्यानि । 'एत्ताहे' इति इत ऊर्ध्वं सम्प्रति 'योगादि' आदिशब्दादुपयोगादिपरिग्रहः, 'वक्ष्ये' अभिधास्ये । तत्र योगान् तावदाह - 'जोगा' इत्यादि । योगा आहारक| द्विकेन आहारकतन्मिश्रलक्षणेन ऊना रहिताः शेषास्त्रयोदश मिथ्यादृष्टौ सासादने अविरतौ च भवन्ति । मिथ्यादृष्ट्या - दिगुणस्थानकत्रये हि संज्ञिपश्ञ्चेन्द्रियोऽपि लभ्यते, तस्य च यथोक्तास्त्रयोदशापि योगाः संभवन्ति । यच्चाहारकद्विकं तच्चतुर्दशपूर्विण एव । तदुक्तम् — “आहारदुगं जायइ चउदसपुविस्स” इति । न च मिथ्यादृष्ट्यादौ चतुर्दशपूर्वाधिगमसंभव इति ॥ ६६ ॥
उरलविउववइमणा, दस मीसे ते विउविमीसजुया । देसजए एक्कारस, साहारदुगा पमत्ते ते ॥ ६७ ॥
( हारि०) व्याख्या - औदारिक वैक्रियवाग्मनांसीति इन्द्र:, इति दश योगा मिश्र - "न सम्ममिच्छो कुणइ कालं" इतिवचनात् । कार्मणौदारिकवैक्रियमिश्रत्रिकं न भवति, आहारकद्विकं तु यतेरेव भवति, अतो मिश्र दश योगा इति भावना । तथा ते पूर्वोक्ता दश योगा वैक्रियमिश्रयुता एकादशेत्यर्थः । क ? इत्याह- देशयते । तथा सहाहारकद्विकेन आहारकशरीरतन्मिश्रलक्षणेन वर्तन्त इति साहारकविकास्ते पूर्वोक्ता एकादश त्रयोदशेत्यर्थः, क ? इत्याह- 'प्रमत्ते' पष्ठगुणस्थानके । इति गाथार्थः ॥ ६७ ॥
For Private And Personal Use Only
टीकाद्वयोपेतम् ॥
॥ ७३ ॥