SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ACCESCOACADAR ॥ अहम् ॥ कर्मग्रन्थचतुष्टयस्य प्रस्तावना। ___सम्पति मुद्रयित्वा प्रकाश्यमानानां प्राचीनमूलकर्मग्रन्थचतुष्कतट्टीकानां तदुभयप्रणेतृतत्तदाचार्यवर्याणां च परिचयात्मागेव प्रस्तुतग्रन्थप्रतिपाद्यविषयखरूपतद्भेदभेदीयपारस्परिकसम्बन्धतदीयज्ञानावश्यकतातज्ज्ञानोपायादीनां ज्ञातव्यविषयाणां प्रसङ्गप्राप्त संक्षिप्य स्पष्टीकरण जिज्ञासुरुचिपोषकतया नोपेक्षितुमुचितमिति तदेव तावदुपक्रम्यते । . तथाहि कर्मणः स्वरूपम्___"वैभाविकपरिणतिप्रयोजकं किल कर्म बोद्धव्यम्" तस्य द्रव्यभावरूपतया द्वैविध्यम्-असदाग्रहासत्प्रवृत्तिकषाययोगैश्चतुर्मिः पूर्वपूर्वत्यागे त्रिभिर्द्धाभ्यामेकेन वा हेतुनात्मप्रदेशेष्वेकरसीभूय संबद्ध्यमानमात्मीयविविधदशाजनकं द्रव्यं द्रव्यकर्म । तत्कार्यकारणभूता अध्यवसाय. विशेषा भावकर्म । तयोर्द्वयोः पारस्परिकः सम्बन्धःद्रव्यकर्म विना भावकर्म न निष्पद्यते ऋते च भावकर्म द्रव्यकर्माऽपि न सञ्चीयते इति तयोः परस्परं जन्यजनकभावः सम्बन्धः । तदीयज्ञानावश्यकतायदि बहुतरसूक्ष्मप्रकारसमेतकर्मतत्त्वस्य कार्यकारणखरूपाणि वयं जानीयाम तदाऽऽध्यात्मिकाधिभौतिकदशामपि समुन्नमयितुं निश्शक A For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy