________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडशीति
प्रकरणम्
॥१८५॥
सबत्थ अजहण्णमणुक्कोसयं दहवं" इति । उक्तं सङ्ख्यातं, साम्प्रतमसङ्ख्यातकमुच्यते । तत्तु विधा, परीतासङ्ख्यातकं युक्ता- टीकाद्वयोसङ्ख्यातकं असङ्ख्यातासङ्ख्यातकं च । पुनरप्येकैकं त्रिधा, जघन्यं मध्यम उत्कृष्टं च । तत्र जघन्यं परीतासंख्यातकापेतम् ॥ उत्कृष्ट सङ्ख्यातकमेवैकरूपाधिकं द्रष्टव्यम् । यत उक्तं सूत्रे-“उक्कोसए संखेज्जए रूवं पक्खित्तं जहण्णयं परित्तासंखेजयं होई" इति । ततः परमसंख्यातसंख्यास्थानानि सर्वाण्यपि मध्यमपरीतासंख्यातकरूपाणि द्रष्टव्यानि यावदुत्कृष्टं परीता-टू संख्यातकं न भवति । तच्चैवंरूपम्-जघन्यपरीतासंख्यातकसंबन्धीनि यावन्ति सर्पपलक्षणानि रूपाणि तान्येकैकशः पृथक पृथक संस्थाप्य, तत एकैकस्मिन् रूपे जघन्यपरीतासंख्यातकप्रमाणो राशिव्यवस्थाप्यते । तेषां च राशीनां परस्पर-12 मभ्यासो विधीयते । इहैवं भावना-असत्कल्पनया किल जघन्यपरीतासंख्यातकराशिस्थाने पश्च रूपाणि कल्प्यन्ते ।। तानि च रूपाणि पृथक् पृथग् विधियन्ते । जाताः पञ्च एककाः एतेषामेककानां स्थाने प्रत्येकं पञ्चपरिमाणो राशियवस्थाप्यते । एतेषां च राशीनामेवमभ्यासः क्रियते। पञ्चभि । गुणिताः पञ्च, जाता पञ्चविंशतिः । एषा पञ्चभिरभ्यस्यते, जातं । पञ्चविंशं शतं । एवमनेनक्रमेण परस्परमभ्यासे सति जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि ३१२५ ए-18 वमिहापि यथोक्तजघन्यपरीतासंख्यातकराशीनां पृथक् पृथगू एकैकस्मिन् रूपे व्यवस्थापितानां परस्परमभ्यासे सति यावान् । राशिरुत्पद्यते, तावान् रूपोनः सन्नुत्कृष्टं परीतासंख्यातकं भवति।रूपे च प्रक्षिप्ते सति जघन्य युक्तासंख्यातकं भवति, ताव- |॥६९॥
प्रमाणा एव च समया एकस्यामावलिकायां द्रष्टव्याः। तथा च सूत्रं जघन्ययुक्तासंख्यातकाभिधानानन्तरम्-"आवलियावि है तत्तिल्लिया चेव" इति। ततः परं यान्यसंख्यातसंख्यास्थानानि तानि मध्यमयुक्तासंख्यातकस्थानानि द्रष्टव्यानि,यावदुत्कृष्टं है
For Private And Personal Use Only