SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 'षडशीतिप्रकरणम् ॥१८३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकशलाकोना भवन्ति तावत्संख्यातमुत्कृष्टं भवति । तत एकशलाकाक्षेपे परीतासंख्यातं जघन्यं स्यात् १ । एवमनेकप्रक्षेपैर्वर्गित संवर्गितन्यायेन च मध्यमपरीतासंख्यातम् २ । उत्कृष्टपरीतासंख्यातं च ३ । एवं जघन्यादिभेदत्रयेण युक्तासंख्यातम् ३ । एवं भेदत्रयेणाऽसंख्यातासंख्यातं भवति ३ । एवमसंख्यातपद्स्थानेऽनन्तपदं वाच्यम् । ततोऽनन्तेऽपि नवभेदा जाताः ९ । प्रक्षेपादिकं सर्व जीवसमासादिग्रन्थेभ्योऽवसेयम् । वचनमात्रमत्र लिखितमिति । किन्त्वनन्तानन्तकमुत्कृष्टं न कथंचित्पूर्यते प्रस्तुते त्वभव्या युक्तानन्तकप्रथम भेदसमा मन्तव्याः । इतिशब्दो वाक्यार्थसमाप्तौ । इहशब्दो योजित एव । तेभ्योऽनन्तगुणा भव्याः । कीदृशा भव्याः 'निर्वाणगमनार्हाः' निवृत्तियानयोग्याः । इति गाथार्थः ॥ ६२ ॥ इति भव्येष्वल्पबहुत्वमुक्तम् । तथा ( मल० ) 'इह' अस्मिन् जगति भव्यापेक्षयाऽभव्यजीवाः स्तोकाः, कुतः ? इत्याह- ' जहन्नजुत्ताणंतयतुल्लत्ति' हेतावियं प्रथमा । ततोऽयमर्थः - यतोऽभव्यजीवा जघन्ययुक्तानन्तकतुल्या इति, तस्माद्भव्यजीवापेक्षया ते स्तोकाः । अथ किमिदं जघन्ययुक्तानन्तकं नाम ?, उच्यते, अनन्तसङ्ख्याविशेषः, स च सङ्ख्यातासङ्ख्यातरूपसङ्ख्या विशेषप्ररूपणामन्तरेण न प्ररूपयितुं शक्यते, एकादिप्ररूपणामन्तरेण शतादिसङ्ख्यावत्, तत आदितः कथयितुमारभ्यते । तत्र सङ्ख्यातं त्रिधा, जघन्यं मध्यममुत्कृष्टं च । तत्र जघन्यं द्वौ एकस्य एकत्वादेव गणनागोचरातिक्रान्तत्वात् । मध्यमं सङ्ख्यातं त्रिप्रभृति यावदेकरूपहीनतया उत्कृष्टं सङ्ख्यातं न भवति । तच्चोत्कृष्टमेवम्-इह जम्बूद्वीपप्रमाणा अधस्ताद्योजन सहस्रमवगाढा उपरिष्टा For Private And Personal Use Only टीकाद्वयोपेतम् ॥ ॥ ६७ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy