________________
Shri Mahavir Jain Aradhana Kendra
क० ३१
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'माण' इत्यादि सर्वस्तोका मानिनः, मानपरिणामकालस्य क्रोधादिपरिणामकालापेक्षया सर्वस्तोकत्वात्ः । तेभ्यः क्रोध वन्तों विशेषाधिकार, क्रोधपरिणामकालस्क मानपरिणामकालापेक्षया विशेषाधिकत्वात् । तेभ्योऽपि मायिनो विशेषाधिकाः, भूयस्त्वेन जन्तूनां प्रभूतकाल च मायाबहुलत्वात् । ततोऽपि विशेषाधिका लोभवन्तः सर्वेषामपि प्रायः संसारिजीवानां सदा परिग्रहाचाकाङ्क्षा सद्भावात् ॥ ५६ ॥
मणपजविणो थोवा, ओहिण्णाणी तओ असंखगुणा । मइसुयनाणी तसो, विसेसअहिया समा दोवि५७॥
( हारि०) व्याख्या - ममः पर्यवज्ञानिनः स्तोका', अवधिज्ञानिनस्ततोऽसंख्यगुणाः, असंख्यत्वात्सम्यग्दृष्टिदेवादीनाम् । मतिश्रुतज्ञानिनस्ततो विशेषाधिकाः अवधिरहितसम्यग्दृष्टितिर्यङ्नरप्रक्षेपात् । स्वस्थाने पुनः 'सम' तुल्यो बावपि राशी । इति गायार्थः ॥ ५७ ॥
तथा
( मल० ) मनःपर्यायज्ञानिनः शेषज्ञान्यपेक्षया स्तोकाः, तद्धि गर्भव्युत्क्रान्तमनुष्याणां तत्रापि संयतानामप्रमत्तानां विविधाम पौषध्यादिलब्धियुक्तानामुपजायते । यत उक्तम् - "तं संजयस्स सवप्पमायरहियस्स विविहरिद्धिमतों । ” इत्यादि । ते च स्तोका एव सङ्ख्यातत्वात् । तेभ्योऽसङ्ख्यगुणा अवधिज्ञानिनः, सम्यग्दृष्टिदेवादीनामवधिज्ञानयुक्तानां तेभ्योऽसंख्यातगुणत्वात् । 'ततः' अवधिज्ञानिभ्यः सकाशान्मतिश्रुतज्ञानिनो विशेषाधिकाः, अवधिज्ञानरहितसम्यग्दृष्टिनर - तिर्यक्प्रक्षेपात् । एतौ च मतिज्ञानिश्रुतज्ञानिनौ स्वस्थाने चिन्त्यमानौ द्वावपि तुल्यौ, मतिश्रुतज्ञानयोः परस्पर
For Private And Personal Use Only