SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐकारका वर्जाः शेषास्त्रयोदश योगा भवन्ति कार्मणौदारिकमिश्रयोगौ तु तेषु न संभवत एव, तयोरपर्याप्तावस्थायां भावात् ।। एतेषां तु मनोयोगादीनां तस्यामवस्थायामसंभवात् ॥ ३९॥ परिहारसुहम्मे नव, उरल १ वइ २ मणा ३ ते सकम्मुरलमिस्सा। अहखाए सविउवा, मीसे देसे सविउविदुगा ॥४०॥ | (हारि०) व्याख्या-परिहारविशुद्धिके तृतीयसंयमे सूक्ष्मसंपराये च चतुर्थसंयमे, अत्र समाहारबन्दः। औदारिकवाग्मनांसीति द्वन्द्वः । औदारिककाययोगो वाक्चतुष्टयं मनश्चतुष्टयं च इति प्रत्येक नव योगा भवन्ति । तथा 'ते' पूर्वोक्ता नव'सकार्मणौदारिकमिश्रा'कार्मणकाययोगौदारिकमिश्रयोगयुक्ता एकादश ॐ योगा 'यथाख्याते' पञ्चमे संयमे भवन्ति । यथाख्यातसंयमश्चान्त्यगुणस्थानकचतुष्के प्राप्यते, ततः कार्मणौदारिकमिश्रयोगद्वयं केवलिसमुद्धाते प्राग्वद्रष्टव्यम् । उपशान्तक्षीणमोहयोस्तु नव नव योगा भवन्ति । अयो गिनि पुनः सर्वयोगाभाव एवेति तात्पर्यम् । तथा 'सविउव्वा मीसे' इति तच्छन्दः पूर्वोक्तोऽत्राप्यनुव-ट है तैते, ततस्ते पूर्वोक्ताः परिहारविशुद्धिसूक्ष्मसंपरायसत्का नव योगा सवैकियाः सवैक्रियशरीरा दशेत्यर्थः, क? इत्याह-मित्रे' मिश्रगुणस्थानके । इदं च वैक्रियं देवनारकापेक्षम् । तथा 'देसेसविउव्विदुगा' इति देशे | देशविरते गुणस्थानके, अत्रापि तच्छब्दोऽनुवर्तनीयः, ततस्ते पूर्वोक्ता नव सवैक्रियद्विका वैक्रियशरीरतन्मिभान्विता इत्येकादश योगा भवन्ति । वैक्रियद्विकं च यथासंभवं लब्धौ सत्यां देशविरताः 45CERES50 २९ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy