________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीकाद्वयों पेतम् ॥
॥१४६॥
OSHOCREA
षडशीति- अविरइहेर्ड, जाणतो रागदोसदुक्खं च । विरइसुहं इच्छंतो, विरई काउं च असमत्थो ॥१॥एस असंजयसम्मो, निंदतो प्रकरणम्- पावकम्मकरणं च । अहिगयजीवाजीवो, अचलियदिट्ठी बलियमोहो ॥२॥" सम्यग्दृष्टित्वं चास्य पूर्वव्यावर्णितान्तरकर
णकालसंभविनि औपशमिकसम्यक्त्वे विशुद्धदर्शनमोहपुञ्जोदयसंभविनि क्षायोपशमिकसम्यक्त्वे वा सर्वदर्शनमोहनीयक्षयसमुत्थक्षायिकसम्यक्त्वे वा सति द्रष्टव्यम्, तस्य गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् ॥ तथा सर्वसावधयोगस्य देशे एकव्रतविषयस्थूलसावद्ययोगादौ सर्वव्रतविषयानुमतिवर्जसावद्ययोगान्ते विरतं विरतिर्यस्थासौ देशविरतः । सर्वसावध
योगविरंतिस्त्वस्य नास्ति प्रत्याख्यानावरणकषायोदयात् । सर्वविरतिरूपं हि प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावकारणाः । उक्तंच-"सम्मइंसणसहिओ, गिण्हतो विरइमप्पसत्तीए । एगवयाइचरिमो, अणुमइमंतोत्ति देसजई॥१॥परि
मियमुवसेवंतो, अपरिमियमणंतयं परिहरंतो। पावइ परम्मि लोए, अपरिमियमणंतयं सोक्खं ॥२॥" देशविरतस्य गुणस्थानं देशविरतगुणस्थानम् ॥ तथा संयच्छति स्म सम्यगुपरमति स्मेति संयतः । “गत्यकर्मण्याधारे च” इति कर्तरि |क्तप्रत्ययः प्रमाद्यति स्म संयमयोगेषु सीदति स्मेति प्रमत्तः, पूर्ववत्कर्तरि कप्रत्ययः। यद्वा प्रमदनं प्रमत्तं प्रमादः, मदिराकषायविषयादिभेदात्पश्चप्रकारः, प्रमत्तमस्यास्तीति प्रमत्तः प्रमादवान् , . “अधादिभ्यः" इति मत्वर्थीयोऽप्रत्ययः। प्रमत्तश्चासी संयतश्च प्रमत्तसंयतः तस्य गुणस्थानं प्रमत्तसंयतगुणस्थानम् । विशुख्यविशुद्धिप्रकर्षापकर्षकृतः स्वरूपभेदः। तथाहि-देशविरतगुणापेक्षयैतद्गणानां विशुद्धिप्रकर्षोऽविशुध्यपकषश्च । अप्रमत्त संयतगुणस्थानापेक्षया तु विपर्ययः। एवमन्येष्वपि गुणस्थानकेषु पूर्वोत्तरापेक्षया विशुद्ध्यविशुद्धिप्रकर्षापकर्षयोजना द्रष्टव्या ॥ तथा न प्रमत्तोऽप्रमत्तः, यद्वा
TERRASSASSAGE
C
॥३०॥
HECAN
For Private And Personal Use Only