________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
iभवतीत्युक्तम् । तत्र क्षायिकसम्यग्दृष्टिः संज्ञिपश्चेन्द्रियः पर्याप्तकः करणापर्याप्तकश्च सर्वगतिषु तावल्लभ्यते। कथमत्रापर्याप्तको लभ्यते इति चेत्, उच्यते, इहकश्चित्पूर्व बद्धायुष्कः क्षायिकसम्यक्त्वमुत्पाद्य गतिचतुष्टयस्यान्यतरस्यां गतावुत्पद्यमानः प्रथममपर्याप्तका क्षायिकसम्यग्दृष्टिलेभ्यते । पर्याप्सः सुप्रतीत एव ।क्षायोपशमिकसम्यग्दृष्टिस्तु देवादिभ्योऽनन्तरमिहोत्पद्यमानस्तीर्थकरादिरपर्याप्तकः प्राप्यते । पर्याप्सकः पुनरत्रापि मुज्ञान एव । औपशमिकसम्यक्त्वे पर्याप्तकसंज्ञिपञ्चेन्द्रिय एवं लभ्यते, अपर्याप्तकसंक्षिपञ्चेन्द्रियस्य पुनरौपशमिकसम्यक्त्वाभावात् । अन्ये तु संज्ञिपञ्चेन्द्रियस्यापर्याप्तस्थापि 'व्यवहारनयमताभिप्रायेणीपशमिकसम्यक्त्वं वर्णयन्ति, तच नावगच्छामः। तथाहि-अपर्याप्तावस्थायां तावदेतत्सम्यक्त्वं नोत्पादयति, तथाविधशुद्ध्यभावात् । पारभविक तर्हि भविष्यति इति चेत्, तदपि न युक्तिक्षमम्, तथाहि-यो मिथ्याष्टिः संस्तत्प्रथमतयौपशमिकसम्यक्स्वमवासोति स तद्भावमापनः कालं न करोत्येव । यत उक्तम्-"अणबंधो १ दय २ माउगबंध ३ कालंपि ४ सासणे कुणइ । उवसमसम्मदिडी, चउण्हमेगंपि नो कुणइ ॥१॥” उप
शमश्रेणेम॒त्वाऽनुत्तरसुरेषूत्पन्नवापर्याप्तकस्यैतल्लभ्यते इति चेत्, एतदपि न मन्यामहे, तस्य प्रथमसमय एव है सम्यक्त्वषुद्गलोदयात् ।उक्तं च शतकामस्मिन्नेव विचारे-"जो उवसमसम्मदिट्टी उखसमसेडीए कालं
करेइ, सो पढमसमए चेव सम्मत्तपुंजं उदयावलियाए छोण सम्मत्तपोग्गले वेएइ, तेण न उवसमसम्मदिही अपज्जत्तगो लन्भइ।” इत्यादि । तस्मात्पर्याप्तकसंज्ञिलक्षणमेकमेव जीवस्थानकमत्र प्राप्यते इति ।
For Private And Personal Use Only