SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir शब्देन सह सामानाधिकरण्यमव्याख्याय यत्प्रकाशकत्वरूपशक्तिवाचकत्वव्याख्यानं तेनेदमावेद्यते यदुत न ज्ञान वापि गच्छति, किंत्वात्मस्थमेव सत्सकलमपि ज्ञेयम् । भिन्नदेशस्थमपि अचिन्त्यशफियुक्ता प्रकारापतीति । तेन यत्कैचिदुच्यते, इह सकललोकपर्यन्तेऽपि ज्ञानमुदयते तच्च ज्ञानमात्मनो गुणोः, गुणाश्च न द्रव्यमन्तरेण वापि गच्छन्ति तस्मादाकाशवदात्माऽपि सर्वव्यापी प्रतिपत्तव्य इति तदपास्तं द्रष्टव्यम् । ज्ञानस्याचिन्त्यशक्त्युपेततया स्वभिन्नदेशस्थेऽपि टू बिषये परिच्छेदाय प्रवृत्त्युपपत्तेः, यथा लोहोपलस्य भिन्नदेशस्थस्यापि लोहस्याकर्षणे । तदुक्तम्-"गंतून परिछिंदङ, नाणं नेयं तयंमि देसमि । आयत्थं चिय नवरं, अचिंतसत्तीओं विनेयं ॥१॥ लोहोवलस्स सत्ती, आयत्था चेव भिन्नदेसंमि । लोहं आगरिसंती, दीसइ इह कज्जपचक्खा ॥२॥ एवमिह नाणसत्ती, आयत्था चेव हंदि लोगतं । जइ परिछिदइ सम, को णु विरोहो भवे तस्स? ॥३॥” इति । एतेन "अजवि धावइ नाणं, अज्जविलोओ अणंतओ अत्थि"| इत्याद्यपि कुचोद्यमपाकृतमवसेयम् । यतो न केवलज्ञानमलोके गच्छति, द्रव्यमन्तरेण गुणानां प्रवृत्त्यसंभवात् तत्र गत्यु पष्टम्भकधर्मास्तिकायाभावाच्च, किन्तूत्पत्तिसमय एवात्मप्रदेशस्थं सदचिन्त्यशक्तियुक्तबया सकलमपि लोकालोकात्मकं ज्ञेयं द्वपरिच्छिनत्ति । तदुक्तम्-"तम्हा सघपरिच्छेयसत्तिमंतं तु नायजुत्तमिणं । एत्तो चिय नीसेस, जाणइ उप्पत्तिसमयमि ॥१॥" ततः कथम् ? "अजवि धावा नाणं” इत्यादि दोषप्रसङ्गः । ननु यो निच्छिन्नमोहपाशः स प्रसृतविमलोरुकेवलप्रकाश एव भवति, ततोऽपार्थकत्वान्नेदं विशेषणमुपादेयमिति न, छद्मस्थावस्थाभाविनिच्छिन्नमोहपाशव्यवच्छेदफलतयाऽस्य सार्थकत्वात् । यद्येवं ततः प्रसृतविमलोरुकेवलप्रकाशमित्येतावदेवास्तामलं निच्छिन्नमोहपाशग्रहणेन, न, अस्या-18 -%CASACARA For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy