SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Kाचार पडशीतिः प्रकरणम्॥११॥ SAKAKAA चारः परिपालितो भवतु, इति मङ्गलमभिधेयम् । आह च-"शिष्टाः शिष्टत्वमायान्ति, शिष्टमार्गानुपाल टीकाद्वयोनात् । तल्लङ्घनादशिष्टत्वं, तेषां समनुषज्यते ॥१॥" तथा संबन्धादीनि श्रोतृजनप्रवृत्त्यर्थमभिधेयानि । पेतम् ॥ तथाहि-यदसंबन्धं तत्र न प्रवर्तन्ते प्रेक्षावन्तो दशदाडिमादिवाक्य इव । एवं निरभिधेयेऽपि काकदन्त-8॥ परीक्षायामिव । एवं निष्पयोजनेऽपि कण्टकशाखामर्दन इवेति । अतः संबन्धादिप्रतिपादनं श्रोतां शास्त्रे प्रवृत्त्यङ्गम्।अथासर्वज्ञावीतरागवचनानां व्यभिचारित्वसंभवेन संबन्धादिसावे निश्चयाभावानेता प्रेक्षावतां प्रवृत्तिरत्र भविष्यति । या पुनः संशयात्प्रवृत्तिस्तांसंबन्धादिवचनं विनैव भवन्ती को निवारयितुं पारयतीति न श्रोतृप्रवृत्त्यङ्ग संवन्धादिवचनम् , सत्यम् , किन्तु शिष्टसमयपरिपालनार्थ भविष्यति।शास्त्रकारा येवं प्रवतमानाः प्रायः प्रेक्ष्यन्ते । येऽपि किल बौद्धाः सर्वथा वचनस्य प्रामाण्यं नाभ्युपगतास्तेऽपि संबन्धाद्यभिधानपूर्वकमेव प्रवृत्तास्ततः शिष्टसमयानुपालनार्थमिदमिति । इह-“संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तत्रस्य षविधा ॥१॥” इति व्याख्यालक्षणप्रपञ्चोऽन्यतोऽवधारणीयः । तत्र निच्छिन्नो नितरां बोटितो मोह एव पाशो मोहनीयकर्मवन्धनं येन स निच्छिन्नमोहपाशस्तम् । प्रसृतो विस्तृतो विमलो निर्मल उरुव॒हत्प्रमाणः केवलप्रकाशः केवलज्ञानोद्योतो यस्य स प्रसृतविमलोरुकेवलप्रकाश६ स्तम् । प्रणतजनानां प्रणिपतितलोकानां पूरिताः परिपूर्णतां नीता आशा मनोरथा येन स प्रणतजनपूरिता १ “यदसंबद्धम्" इत्यपि पाठः ॥ GAKARA ॥ २ ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy