________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बन्धस्वामित्वम्
सटीकम् ।
॥११२॥
SCRECRACK
'नपुचउरूणा' इति प्राकृतत्वादेव नपुंसकवेदहुण्डसंस्थानसेवार्तसंहननमिथ्यात्वलक्षणनपुंसकचतुष्क, अनयोर्द्वन्द्वः, ताभ्या- मूना हीना एकेन्द्रियत्रिकनपुंसकचतुष्कोना अनन्तरोक्का अष्टाधिकशतसङ्ख्याः प्रकृतय एकोत्तरशतसङ्ख्या भवन्ति १०१। तास्तेजोलेश्याका: सासादना बन्नन्ति । इति गाथार्थः ॥४३॥ मीसाईपंचगुणा, ओघं बंधति पम्हलेसा वि।विगलतिगं निरयतिगं, सुहमतिगेगिंदिथावराया ॥४॥ हिच्चा सयमद्दहियं, तित्थाहारदुगहीण मिच्छाओ। संढाइचउक्कोणं, साणा मीसाइ पणगओघं तु॥४५॥ - गीतिद्वयम् ॥ व्याख्या-'तात्स्थ्यात्तव्यपदेशः' इतिन्यायान्मिश्रादिपञ्चगुणस्था जीवाः कर्मस्तवोक्तमोघं बन्नन्ति । तद्यथा-मिश्र ७४ । अ० ७७ । दे०६७ । प्र०६३ । अ० ५९ । इति तेजोलेश्याकाः। तथा पद्मलेश्याका अपि विकलत्रिक नरकत्रिक पूर्वोक्तस्वरूपम् । 'सहमतिग' इति सूक्ष्मनामसाधारणनामापर्याप्तकनामलक्षणसूक्ष्मत्रिकमेकेन्द्रियजातिस्थावरनामातपनाम चेति पदद्वयस्य समाहारद्वन्द्वस्तदिति द्वादशप्रकृलीरित्यर्थः, 'हित्वा' त्यक्त्वा विंशत्यधिकशतमध्यादिति शेषः । शेषं शतमष्टाधिक सामान्येन १०८ बघ्नन्तीति प्राकनक्रियायोग इति । तथा तीर्थकराहारकद्विकहीनाः पूर्वो-14 काष्टाधिकशतसङ्ख्याः प्रकृतीमिथ्यादृशस्तु पद्मलेश्याका बनन्तीति योगः १०५। तथा पश्चोत्तरशतं 'संढाइचउक्कोण' इति
घकाण इत नपुंसकादिचतुष्केण पूर्वोक्तेनोनं हीनं नपुंसकादिचतुष्कोनं पद्मलेश्याकाः सासादना बनन्तीति १०१ । तथा मिश्रादयः 'पणग' इति पञ्चौघं पद्मलेश्याका बनन्तीति योगः। तद्यथा-मिश्र०७४ । अ०७७ । देश०६७। प्र०६३ । अ०५९।। 'तुः' पूरणे समुच्चये च । इति गाथार्थः॥४४॥४५॥
॥१५॥
For Private And Personal Use Only