________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या— सुरद्विकवैक्रियद्विकं पूर्वोक्तम्, अत्र तत्पुरुषगर्भः समाहारद्वन्द्वः, तीर्थकरनाम चेति प्रकृतिपञ्चकमनन्तरोक्तसामान्यबन्धाच्चतुर्दशोत्तरशतादिति गम्यते, 'हित्वा' परित्यज्य शेषं नवाग्रशतमौदारिकमिश्रयोगे मिथ्यादृशस्तु बनम्ति १०९ । तथा सयोगिन औदारिकमिश्रयोग इति पूर्वेण योगः, केवलिसमुद्धाते सप्तमषष्ठद्वितीयसमयेषु सातमेवैकं १ वन्तीति पूर्वेण संबन्धः । अत्र यदुत्क्रमतः संयोगिग्रहणं तल्लाघवार्थम् । यच्च प्राक्तनगाथायाः 'औदारिकमिश्रे' इति पदेऽ| नुवर्तमाने पुनस्तत्पदोपादानं तद्भिन्नगाथायां सुखार्थम् । इति गाथार्थः ॥ २७ ॥
अथ सार्द्धगाथयौदारिकमिश्रयोगे बन्धं समर्थयन् गाथार्द्धेन वैक्रिययोगे देवनारकबन्धसमतां दर्शयन्ना (यश्चा) ह| निरतिगहीणा सोलस, तिरिनरआउं पि मोचु साणा वि । तिरिया उविहीणं पण्णवीसमुज्झित्तु अविरए बंधे तित्थं वेउविदुगं, सुरदुगसहियं उरलमिस्से । सामन्नदेवनारयबंधो नेओ विउविजोगे वि ॥ २९ ॥
गीत्युहीती ते गाथे ॥ व्याख्या -नरकत्रिकहीनाः षोडश प्रकृतीः, तथा तिर्यङ्गनरायुषी अपि नवोत्तरशतमध्यादनन्तरोक्ताम्मुक्त्वा शेषां चतुर्नवति ९४ मौदारिकमिश्रयोग इति पूर्वेण योगः । 'साणा वि' इति, सासादनसम्यग्दृशोऽपि । अपिशब्दः समुचयार्थः । बनम्तीति प्राक्तनेन संबन्धः । तथा चतुर्नवतेर्मध्यात्तिर्यगायुर्विहीनां पञ्चविंशतिं 'उज्झित्वा' परित्यज्य शेषायाः सप्ततेः 'तित्थं वेउविदुगं सुरदुगसहियं' इति प्राकृतवशात्तीर्थकरनाम वैक्रियद्विकं सुरद्विकसहितमिति पञ्चप्रकृतिसहिताया ७५ औदारिकमिश्रयोगे 'अविरए' इति, अविरत सम्यग्दृष्टिगुणस्थानके बन्धः । एवं गुणस्थानचतुष्क एवौ
For Private And Personal Use Only