________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4064040***
सामान्यपदेऽविरतगुणस्थानके च तीर्थकरनामहीनतोक्ता, मिथ्यादृष्यादिषु त्रिषु पुनस्तस्य मागेवापनीतत्वादिति भावः। 'मराउहीणं सयं तु सत्तमिए' इत्यादि पङ्कप्रभादिनरकपृथिवीत्रये सामान्येन यच्छतमुक्तं तदेव नरायुष्कहीनं पुनः सप्तम्यामोघबन्धः ९९ । तुशब्दः पुनः योजित एवेति । अथ तस्यामेव गुणस्थानकेषु तन्निरूपयन्नाह-मणुदुर्ग इत्यादि मनुष्यगतिमनुष्यानुपूर्वीद्विकोच्चैर्गोत्रैर्विना षण्णवतिर्भवति, तां मिथ्यादृशो बन्नन्ति ९६ । इति ॥८॥अथ द्वितीयगाथा व्याख्यायते-हुंडाईचउरहियं इति, हुण्डसंस्थानच्छेदस्पृष्टसंहनननपुंसकवेदमिथ्यात्क्चतुष्करहितम्। तथा 'तिरियाउमा य' इति, तिर्यगायुषा च रहितांतां षण्णषतिं कृत्वेति शेषः, चशब्दाद्रहितशब्दः प्राक् समस्तोऽप्यत्र योज्यते । तत एकनवर्ति ९१ सासादना वनन्तीति प्राक्कनेन संबन्धः । तथा 'इगुणपणुवीसरहिया' इति, एकेन तिर्यगायुषाऽनन्तरापनीतेनोना रहितकोना सा चासौ पञ्चविंशतिश्च पूर्वोका तया रहिता न्यूना एकोनपञ्चविंशतिरहिता । तथा 'सनरदुगुञ्चा' इति, सह नरद्विकोच्चैर्वर्तते सनरद्विकोच्चा, नरगतिनरानुपूर्वीद्विकोच्चैमात्रैः सहितेत्यर्थः । येका एकनवतिः सा सप्ततिर्भवति, सा च मिश्रे ७० । इह सप्तम्यां नरायुस्तावन्न बध्यत एव । तद्वन्धाभावेऽपि मिश्रगुणस्थानकेऽविरतगुणस्थानके च नरगतिनरानुपूर्वीद्वयं बध्यते, तस्यान्यदाऽपि बन्धात् । अयमर्थः-नरगतिनरानुपूर्योर्नरायुषा सह नावश्यं प्रतिबन्धः, | यदुत यत्रायुर्वध्यते तत्रैव गत्यानुपूर्वीद्वयमपि, किन्तु आयुरेकदैव बध्यते, गत्यानुपूर्वीद्वयमन्यदाऽपि बध्यत इति । तथा मिथ्यात्वसासादैनाभ्यां द्वयं न बध्यते, कलुषाध्यवसायत्वादिति । अथ कथमत्राविरतगुणस्थानके बन्धस्वामित्वं पृथग्|
१ "पुनरर्थे" पुनरर्थो" इत्यपि । ३ "यका" इति खार्थिककपत्ययान्तं रूपम् , "या" इत्यर्थः । ३ "सासादनयोः तयं” इत्यपि ।
***
*
*
For Private And Personal Use Only