________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निद्राप्रलयोः क्षीणकषायस्य द्विचरमसमये उदयव्यवच्छेदः । चरमसमये तु क्षीणत्वात्तदुदयाभावः । अपरे पुनराहु:उपशान्तमोहे निद्राप्रचलयोरुदयव्यवच्छेदः । पञ्चानामपि हि निद्राणां घोलनपरिणामे भवत्युदयः । क्षपकाणां त्वति| विशुद्धत्वान्न निद्रोदयसंभवः । उपशमकानां पुनरनतिविशुद्धत्वात्स्यादपीति । 'नाणंतरायदसगं' इति, ज्ञानावरणे पञ्च, अन्तराये पञ्च, दर्शनावरणानि चत्वारि चक्षुदर्शनावरणादीनि इत्येतासां चतुर्दशानां प्रकृतीनां क्षीणकषायचरमसमये उदयव्यवच्छेदः, तदनन्तरं क्षयादिति ॥ ३३ ॥
अन्नयरवेयणीयं, ओरालियतेयकम्मनामं च । छच्चेव य संठाणा, ओरालियअंगुवंगं च ॥ ३४ ॥ आइमसंघयनं खलु, वण्ण चंडकं च दो विहाग्रगती । अगुरुयलहुयचउक्कं, पत्ते य थिराथिरं चैव ॥ ३५ ॥ सुभसुस्सरजुयलावि य, निमिणं च तहा हवंति नायवा । एया तीसं पयडी, सजोगिचरिमंमि वोच्छिन्ना ३६॥
गाथानयम् । ‘अन्यतरवेदनीयं' सातमसातं वा यदयोगिगुणस्थाने न वेदयिष्यते । औदारिकशरीरं तैजसशरीरं कार्मणशरीरम्, 'छच्चैव य संठाणा' षटू संस्थानानि समचतुरस्त्रादीनि, 'ओरालियअंगुवंगं च' इति, औदारिकाङ्गोपाङ्गनाम, 'आदिम संहननं' वज्रर्षभनाराचम्, 'वर्णचतुष्कं' वर्णगन्धरसस्पर्शाख्यम्, 'दो विहायगती' इति, प्रशस्ताप्रशस्तविहायोगती इति, 'अगुरुलघुचतुष्कं' अगुरुलघूपघातपराघातोच्छ्वासांख्यम्, प्रत्येकं स्थिरं अस्थिरं, 'सुभसुस्सरजुयलावि य' इति, शुभं अशुभं सुस्वरं दुःस्वरं निर्माणम्, इत्येतास्त्रिंशत् प्रकृतय उदयं प्रतीत्य सयोगिचरमसमये व्यवच्छिन्नाः । तत्रान्यतरवेदनीयं यदयोगिगुणस्थाने न वेदयितव्यं तत्सयोगिचरमसमये व्यवच्छिन्नोदयं भवति, पुनरुत्तरत्रोदयाभावात् ।
For Private And Personal Use Only