________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatirth.org
गतो बन्धावलिकामानं कालमनुदितान् बनाति । मनुष्यायुरादित्रयं त्वेकान्तेन मनुष्यवेद्यमेव । औदारिकादित्रयं तु| मनुष्यतिर्यगेकान्तवेद्यमेव । देशविरतादिस्तु देवगतिवेद्यमेव बध्नाति, नान्यत् । तेनैतद्दशकमविरत एव व्यवच्छिन्नम् । सम्यग्मिथ्यादृष्टौ न कस्यचिद्वन्धव्यवच्छेदः, तस्याविरतसम्यग्दृष्टिना सह बन्धहेत्वविशेषात् ॥१५॥ तइयकसायचउकं, विरयाविरयंमि बंधवोच्छेओ।
तइयेत्यादि गाथापूर्वार्द्धम् । 'तइयकसायचउकं' इति, प्रत्याख्यानावरणानां क्रोधमानमायालोभानां देशविरतेर्बन्धव्यवच्छेदः, तदुत्तरेषु तेषामुदयाभावादनुदितानां चाबन्धात्प्राग्वत् ॥ .
अस्सायमरइसोयं, तह चेव य अथिरमसुभं च ॥ १६ ॥ अजसकित्ती य तहां, पमत्तविरयंमि बंधवोच्छेओ। ...'अस्साय' इत्यादि पश्चार्द्धम् । 'अन्जसकित्ती' इत्यादि पूर्वार्द्धम् । असातवेदनीयं अरतिः शोकः अस्थिरनाम अशुभनाम ॥ १६ ।। अयशःकीर्तिनाम, इत्येतासां षण्णां प्रकृतीनां प्रमत्तविरतेर्बन्धव्यवच्छेदः, तद्वन्धस्य प्रमादप्रत्ययत्वात् , प्रमादस्य चोत्तरत्राभावात् ॥
देवाउयं च एगं, नायवं अप्पमत्तंमि ॥१७॥ 'देवाउय' इत्यादि पश्चार्द्धम् , देवायुष्कमेकं ज्ञातव्यं, अप्रमत्ते बन्धं प्रतीत्य व्यवच्छिन्नम् । देवायुष्कबन्धं हि प्रमत्तः
१ "तदायु"-इत्यपि पाठः ।
ARRAGARRAREGRIPIIRISESSA
For Private And Personal Use Only