SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मस्तवः टाकापतः। ॥८७॥ KAROADCASTOCOG मादाय भाषात्वेनावलम्ब्य मुञ्चति सा भाषापर्याप्तिः । यया तु मनःप्रायोग्य वर्गणाद्रव्यमादाय मनस्तयाऽऽलम्ब्य मुञ्चति सा मनःपर्याप्तिः । इत्येताः यथासंख्यमेकेन्द्रियविकलेन्द्रियसंज्ञिपञ्चेन्द्रियाणां चतुष्पञ्चषट्सङ्ख्याः पर्याप्तयो यस्योदयानवन्ति तत्पर्याप्तकनाम । येषां हि पर्याप्तयः सन्ति ते पर्याप्ताः, मत्वर्थीयोऽच्प्रत्ययः, पर्याप्ता एवं पर्याप्तकाः । तद्भावविपाकवेद्यं कर्मापि पर्याप्तकनाम । ननु च शरीरपर्याप्त्यैव शरीरं भविष्यति तत्कि शरीरनाम्ना ?, नैतदस्ति, साध्यभेदात्, शरीरनाम्नो हि जीवेन गृहीतानां पुद्गलानामौदारिकादित्वेन परिणतिः साध्या, शरीरपर्याप्तेस्तु प्रागात्मनाऽऽरब्धस्य शरीरस्य परिसमाप्तिरिति १९ ता एव षड़ यथास्वं शक्कयो विकला अपर्याप्तयस्ता यस्योदयाद्भवन्ति तदपर्याप्तकनाम, शब्दव्युत्पत्तिः पूर्ववत् २० । यस्योदयात्प्रत्येकं शरीरं भवति, एकैकस्य जीवस्यैकैकं शरीरमित्यर्थः, तत्प्रत्येकनाम २१ । यस्योदयादनन्तानां जीवानां साधारणमेकं शरीरं भवति तत्साधारण म २२ । यदुदयादस्थ्यादयः शरीरावयवाः स्थिरा निश्चला भवन्ति तत्स्थिरनाम २३ । यदुदयाज्जिह्वादिवंदस्थिरा भवन्ति तदस्थिरनाम २४ । यदुदयान्नाभेरुपरि शुभाः शरीरावयवा भवन्ति तच्छुभनाम, शिरःप्रभृतिना हि स्पृष्टस्तुष्यति पादादिभिस्तु रुष्यति २५ । यदुदयान्नाभेरधोऽशुभाः शरीरावयवा भवन्ति तदशुभनाम २६ । यदुदयान्मधुरगम्भीरोदारः स्वरो भवति तत्सुस्वरनाम २७ । यदुदयात्खरभिन्नहीनदीनः स्वरो भवति तदुःस्वरनाम २८१ यदुदयात्सर्वस्य प्रियः प्रहादकारी भवति तत्सुभगनाम २९ । तद्विपरीतं दुर्भगनाम ३० । यदुदयेन यत्किंचिदपि ब्रुवाण उपादेयवचनो भवति सर्वस्य तदादेयनाम ३१ । यदुदयेन तु युक्तमपि ब्रुवाणः परिहार्यवचनो भवति तदनादेयनाम ३२ । सर्वदिग्गामिनी पराक्रमकृता वा सर्वजनोत्कीर्तनीयगुणता यश ॥१९॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy