________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
होइ तहा साहारं, अथिरं असुभं च दूभगं चेव । दूसरणाइजेहिं य, अजसेहिँ य बीयदसगं तु ॥ १३२ ॥ व्याख्या- 'आदी' प्रथमं सचतुष्कं भवति ज्ञातव्यम् । प्रसवाद स्पर्धासप्रत्येकमामानि । स्थिरादिषङ्कं तु स्थिरशुभसुभगसुखरआदेययशांसि, पुनरुपरिमं पद्धं स्थिरादिषट्कसंज्ञं भवति विज्ञेयम् । उक्तं त्रसादिदशकं संज्ञात्रयं, स्थावरदशकंसंज्ञाचतुष्कमधुनोच्यते इति वाक्यशेषः । स्थावरसूक्ष्मं च साधारणमिति स्थावरनाम सूक्ष्मनाम व साधारणनाम स्थावरदशकान्तर्वर्त्ति विज्ञेयम् । इति गाथार्थः ॥ १३१ ॥ तथा भवत्यपर्याप्तं नाम' अस्थिरं' अस्थिरनाम 'अशुभं च' अशुभनाम 'दुर्भगं चैव' दुर्भगनामैव, दुःखरानादेयनामभ्यामयशः कीर्त्त्या च सह द्वितीयदशकं तु पुनरेतैर्नामभेदैर्भवति । दुःखरानादेयैः, बहुवचनं प्राकृतत्वात् "बहुवयणेण दुवयणं” इत्याद्युक्तेः । 'अजसेहिं य' अत्र बहुवचनमयशः कीर्त्तरनेकधा ख्यापनार्थम् । इति गाथार्थः १३२
अस्यैव स्थावरदशकस्यान्तर्वर्त्तिसंज्ञान्त्रयमाह -
( पारमा० ) 'आये' प्रकृतिपिण्डे त्रसचतुष्कमिति संज्ञा भवति । 'स्थिरादिषट्कं तु' स्थिरादिषङ्कसंज्ञं तु 'उपरिमं' प्रकृतिपिण्डरूपं भवति इत्युक्तं प्रकृतिदशकस्य समस्तव्यस्तस्य त्रसदशकत्र स चतुष्कस्थिरादिषङ्कलक्षणं संज्ञात्रयम् । द्वितीयं दशकं प्रस्तावनापूर्वमाह — स्थावरदशकमधुनोच्यत इति शेषः । स्थावरं १ सूक्ष्मं २ अपर्याप्तम् ३ ॥ १३१ ॥ 'होइ तहा साहारं' इति, भवतीत्यये योक्ष्यते । साधारणं साधारणनाम ४ । “धावरसुहुमं च साहारं ॥ तह होइ अपज्जत्तं" इति खपपाठः पर्याप्तप्रत्येकयोः सेतरत्वस्योच्छृङ्खलतापत्तेः । अस्थिरं ५ अशुभं ६ च दुर्भगं चैव ७ 'दूसरणाइजेहिं य' इति
For Private And Personal Use Only