________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| खाद्यमाना रसनाम्नः पञ्चप्रकारस्योदयेन भवेयुः । लवणस्य तु एतदनुयायित्वात् केवलस्यानुपयोगाच्च पृथगुपादानं न कृतम् । इति गाथार्थः ॥ ११६ ॥
स्पर्शनाम प्राह
गुरुलहुमिउकढिणावि य, निद्रा लक्खा य होंति सीउण्हा । जिय देहाणं फासा, उदपणं फासनामस्स ११७
व्याख्या - गुरुश्च लघुश्च मृदुश्च कठिनश्च गुरुलघुमृदुकठिनाः, तेऽपि च, अपिशब्दः समुच्चये, 'चः' खगतानेक भेदसंसूचनार्थः, निग्धा रुक्षाश्च भवन्तीति प्रत्येकमभिसंबध्यते । शीताश्च उष्णाञ्च शीतोष्णाः 'जीवदेहानां' प्राणिशरीराणां 'स्पर्शाः' स्पर्शनेन्द्रियग्राह्या जायन्ते 'उदयेन' विपाकेन 'स्पर्शनानः' कर्मणः । तत्र गुरुर्महान् वज्रसीसकादिवत् । लघु अल्पतरं शाल्मलीतूलवत् । मृदुः सुकुमारः पट्टस्पर्शवत् । कठिनो निर्वरः अन्धपाषाणवत् । लिग्धः सस्नेहो घृतपूरमिन्द्रिकापत्रयोरिव । रूक्षः स्नेहरहितः सुधावत् । शीतः प्रतीत उदकस्येव । उष्णस्तद्विपरीतोऽमेरिव । स्पर्शशब्दः सर्वत्र संबन्धनीयः । इति गाथार्थः ॥ ११७ ॥
उक्तं स्पर्शनाम, अगुरुलघुनामाह
( पारमा० ) तत्र गुरुलध्वादयः प्रायः स्पर्शत्वेन जने न प्रसिद्धा इति तत्स्वरूपनिरूपणा क्रियते । तत्र यतः स्पर्शा इस्तूनामधोगमन क्रिया भवति स स्पर्शो गुरुः, यदाह - अधोगतेर्गुरुः १ । यतो वस्तूनां प्रायः तिर्यगूर्द्ध च गमनं स स्पर्शो लघुः, यदाह - तिर्यगूर्द्धगतेर्लघुः २ । यतो वस्तूनां नमनक्रिया स स्पर्शो मृदु:, यदाह – सन्नतेर्मृदुः ३ । यतो
For Private And Personal Use Only