SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ फिट्सूत्राणि ॥ [१, २. ३.४. ५. उदात्तो भवति । पाटला पालका फलेरुहा सुरूपा । अपालङ्कार्थीनामपि । अपालङ्क : अवघातकः । अम्बाथानामपि । अम्बा अक्का अल्ला । सागराथीनामपि । सागरः समुद्रः उदधिः ॥ गेहाथानामस्त्रियाम् ॥ ३ ॥ सि० कौ० ॥ गेहम् । नविषयस्य । २.३. । इति प्राप्ते । अस्त्रियां किम् । शाला। आंद्युदात्तो ऽयम् । इहैव पर्युदासाज्ज्ञापकात् ॥ ल० श० ॥ आबुदात्तो ऽयमिति । नन्वनेनान्तोदात्तत्वाभावे ऽपि नियमत आबुदात्तत्वं केन स्याद्विधायकाभावात् । अटो नियम इति वक्तुं युक्तमित्यत आह । इहेवेति । एषां सूत्राणामायसूत्रवाधकबाधनार्थत्वादस्त्रियामित्येतदभावे स्त्रियामप्यनेन वाधकं वाध्येत । वाधकं चानेनैवानुमीयते । तच्च मध्योदत्तत्वस्यात्रासंभवात्सवीनुदात्तविधायकस्य च फिट् - सूत्रेष्वदर्शनादाद्युदात्तविधायकमेवेति भावः । स्त्रीविषय | २. २०. । इत्याद्युदात्तत्वमित्यन्ये ॥ फि० वृ० ॥ गेहार्थीनां शब्दानामन्त उदात्तो भवत्यस्त्रियाम् । गेहं हर्म्य हलाहलम् । गेहार्थानामिति किम् । कुण्डं वाह्यम् । अस्त्रयामिति किम् । शाला ॥ गुदस्य च ॥ ४ ॥ सि० कौ० ॥ अन्त उदात्तः स्यात् । न तु स्त्रियाम् । गुदम् । अस्त्रियां किम् । आन्त्रेभ्यस्ते गुदाभ्यः । ऋ० वे० १०. १६३. ३. । स्वाङ्गशिटामदन्तानाम् । २. ६. । इत्यन्तरङ्गमाद्युदात्तत्वम् । ततष्टाप् ॥ • ल० श० ॥ गुदमिति । नविषयस्य । २. ३. । इति स्वाङ्गशिटाम् । २. ६. । इति वा प्राप्ते । ननु गुदाशब्दस्यादन्तत्वाभावात्कथं स्वाङ्गेत्यस्यं प्राप्तिः । अत आह । अन्तरङ्गमिति ॥ फि० वृ° ॥ गुदस्यास्त्रियामन्त उदात्तो भवति । अगेहार्थ आरम्भः । गुदम् । अस्त्रियामिति किम् । या च ते गुदा । आन्त्रेभ्यस्ते गुदाभ्यः । ऋ० वे० १०. १६३. ३. ॥ ध्यपूर्वस्य स्त्रीविषयस्य ॥ ५ ॥ सि° कौ° ॥ धकारयकारपूर्वो यो ऽन्त्यो ऽच् स उदात्तः । अन्तध 1 For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy