SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir हदगपूरगं, दुम्मणं जणं दइअवजिअं पायएहिं सोसयंतं, पुणो सोमचारुरुवं, पिच्छइ सा, गगणमंडलविसालसोमचंकम्ममाणतिलगं, रोहिणिमणहिअयवल्लह, देवी पुन्नचंदं समुल्लसंतं ६॥३९॥ तओ पुणो तमपडलपरिष्फुडं चेव तेअसा पजलंतरूवं, रत्तासोग-पगासकिंसुअ-सुअमुह-गुंजद्धरागसरिसं, कमलवणालंकरणं, हंसवत्पटुवर्ण-श्वेतं, ज्योतिषां मुखमण्डकं, 'तमोरिपुं अन्धकारशत्रु, मदनस्य 'शरापूरमिव' तूणीरमिव, यथा धानुष्कस्तूणीरमवाप्य निश्श हरिणादिकं विध्यति, एवं मदनोऽपि चन्द्रोदयं प्राप्य निश्शत जनान् व्याकुलीकरोति । 'समुद्रोदकपूरकं' उदधिवेलावर्द्धकं, 'दुर्मनस्कं' व्याकुलीभूतं 'दयितवर्जितं' भर्तृवियुक्तं जनं, विरहिणीलोकमित्यर्थः। पादैः किरणः शोषयन्तं, वियोगीदुःखदमित्यर्थः। पुनर्यः सौम्यस्सन् चारुरूपस्तं, तथा यो गगनमण्डलस्य विशालं 'चक्रम्यमाणं' चलनखभावं तिलकं, शोभकत्वात्। रोहिण्याश्चन्द्रकान्ताया मनसश्चित्तस्य 'हितदो हितकरो 'वल्लभः' प्रियस्तंx, पुनः समुल्लसन्तं-ज्योत्स्नया दीप्तिमन्तं, एतादृशं पूर्णचन्द्रं देवी-त्रिशला प्रेक्षते ६। ४० ततः पुनः सप्तमे खप्ने सूर्य पश्यति, किंविशिष्टं ?, तमःपटलस्य 'परिस्फोटकं' नाशकं, तेजसैव प्रज्वलद्रूपं, खभावतस्तु सूर्यबिम्बवतिनो बादरपृथ्वीकायिकाः शीतला एव, परन्त्वातापनामकर्मोदयतस्तेजसैवैते जनं व्याकुली कुर्वन्तीति बोध्यम् । पुनः किंवि०१, रक्ताशोकः-अशोकवृक्षविशेषः, 'प्रकाशकिंशुकः' पुष्पितपलाशः, शुकमुखं गुञ्जाई च प्रतीतं, एतेषां यो 'रागों' रक्तत्वं, तत्सदृशं रक्तवर्ण । कमलवनानां 'अलङ्करणं' विकाशकं, x सर्वनक्षत्राधिपत्वेऽपि यद्रोहिणीवल्लभ इत्युक्तं तल्लोकरूड्या, अन्यथा रोहिणी तु नक्षत्र, चन्द्रनक्षत्रयोः स्वामिसेवकत्वमेव शास्त्रे प्रतीतः, न तु स्त्रीभर्तृत्वम् । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy