________________
Shri Mahavir Jain Aradhana Kendra
*6X-X---
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवइ, से तं लेणसुडुमे ७ ॥ से किं तं सिणेहसुद्दुमे ?, सिणेहसुदुमे पंचविहे पण्णत्ते, तं जहा-उस्सा १ हिमए २ महिया ३ करए ४ हरतणुए ५, जे छउमत्थेणं निग्गंथेण वा निग्गंधीए वा अभिक्खणं २ जाणि० पासि० पंडि० भवइ, से तं सिणेहसुदुमे ८ ॥ ४५ ॥ (१६) |
वासावासं पज्जोसविए भिक्खू इच्छिजा गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, नो से कप्पर अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पवित्तिं गणि गणहरं गणावच्छेययं, जं वा पुरओ काउं विहरइ । कप्पर से आपुच्छिउं आयरियं अथ किं तत्स्नेहसूक्ष्मं ?, स्नेहसूक्ष्मं पञ्चविधं प्रज्ञप्तं, तद्यथा- 'अवश्यायो' रजन्यां पतत्सूक्ष्मजलं (ओस इति लोके ) १, हिमं प्रतीतं २, 'महिका' धूमरी ३, 'करकः' घनोदकोपलः ४, 'हरतनुः' भूनिस्सृततृणाग्रबिन्दुः ५, यच्छद्मस्थेन निर्ग्रन्थेन वा निर्ग्रन्ध्या वा अभीक्ष्णं २ यावत्प्रतिलेखितव्यं भवति, तदेतत्स्नेहसूक्ष्मम् ८। इति षोडशी सामाचारी ॥ अथ गुरुं पृष्ट्वैव विहरणादिकर्त्तव्यरूपां सप्तदशीं सामाचारीमाह
इतोऽनन्तरं सूत्रचतुष्कं ऋतुबद्ध-वर्षाकालयोः साधारणसामाचारीविषयं, तथापि वर्षासु विशेषेणोच्यते४६ - वर्षावासं पर्युषितो भिक्षुर्यदि इच्छेद् गाथापतिकुलं भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा, तदा न तस्य - साधोः कल्पते अनापृच्छ्य, कं ?, 'आचार्य' सूत्रार्थदायकं दिगाचार्य वा, 'उपाध्यायं' सूत्राध्यापकं वा 'स्थविरं' वयः पर्यायादिस्थविरत्वप्राप्तं यो वा ज्ञानादिषु सीदतां स्थिरीकर्त्ता उद्यतानामुपबृंहकञ्च भवति, तं, 'प्रवर्त्तकं' ज्ञानादिषु प्रवर्त्तयितारं 'गणिं' आचार्यस्यापि सूत्राद्यध्यापकं 'गणधरं' तीर्थकृच्छिष्यं 'गणावच्छेदकं' यः साधुगणं गृहीत्वा बहिर्विहरति, यद्वा गच्छार्थं क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्त्ता सूत्रार्थोभयवित्, तं यं वा वयसा पर्या
For Private And Personal Use Only
XXXXXXXXXXXX