SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagarsuri Gyanmandir ___ यदि चाधिकमासो गणनायां गण्यते तदा चातुर्मासिक-सांवत्सरिकप्रतिक्रान्योरभ्युत्थानक्षामणासु "चउण्हं मासाणं, अट्ठण्हं पक्खाणं, वीसुत्तरसयराइंदियाणं" तथा "बारसण्हं मासाणं, चउवीसण्हं पक्खाणं, तिणिसयसद्विराइंदियाणं" इत्येतदागमोक्तपाठस्थाने |"पंचण्हं मासाणं, दसण्हं पक्खाणं, पण्णासुत्तरसयराइंदियाणं" तथा "तेरसण्हं मासाणं, छबीसण्हं पक्खाणं, तिण्णिसयनउइ राइंदियाणं" इतिरूपः कल्पितपाठो वक्तव्यः स्यादिति चेत् ? न, जल्पनमेतदागमज्ञानाकौशलमेव व्यनक्ति तव, यतो न कुत्राप्यागमे प्रोक्तमेतत् , यदुत-चान्द्रोऽभिवर्द्धितो वा यः कोऽपि वर्षो भवतु, सर्वत्र तुल्य एव पाठोऽभ्युत्थानक्षामणासु पठनीयः, भवेदेवं चेत्वाप्यागमे तर्हि किं |न दयते भवता?, अस्मदृष्टिपथे तु न काप्यायातं, केवलं हारिभद्रीयावश्यकवृत्तिप्रोक्तं “एगस्स पक्खस्स पण्णरसण्हं दिवसाणं, पण्ण| रसण्हं राईणं" इत्येतं पाक्षिकपाठमनुसृत्यैव चातुर्मासिक-सांवत्सरिकयोरपि पाठकल्पनैवाहर्निशं विधीयते सर्वैरपि गच्छवासिभिः । अपि च त्वामेव पृच्छ्यते, यदुत-तीर्थकरैः सद्भूतवस्तुप्ररूपणमुपदिष्टं वाऽसद्भूतवस्तुप्ररूपणं? । चेत्सद्भूतवस्तुप्ररूपणमुपदिष्टं तर्हि जातेष्वपि वस्तुत| स्त्रयोदशसु मासेषु षड्विंशतिषु च पक्षेषु, जल्पितेष्वपि च स्वास्येनैव प्रतिपाक्षिकं त्रिस्त्रिीरं “एगस्स पक्खस्स” इत्यादिपाठेन सद्भूतगण| नात्मकेषु षड्विंशतिषु पक्षेषु चातुर्मासिकसांवत्सरिकयोरेकं मासं द्वौ च पक्षावुड्डाय्य "चउण्हं मासाणं, अढण्हं पक्खाणं-बारसण्डं मासाणं, चउबीसण्हं पक्खाणं" इत्यादिजल्पनं किं सद्भूतवस्तुप्ररूपणं ? उतासद्भूतवस्तुप्ररूपणं ? इति स्वयमेव त्वं चक्षुषी निमील्य विचारय ।। नन्वेवं तर्हि तिथीनां वृद्धौ जातेष्वपि षोडशसु रात्रिन्दिवेषु वृद्धितिथिं सम्मिल्य "सोलसण्हं दिवसाणं" इत्यादिकमभणित्वा कथं “पण्णरसण्हं दिवसाणं" इत्यायेव भण्यते ? इति चेदिदमपि तेऽनुपासितगुरोर्वचो न विद्वज्जनमनांसि रञ्जयति, यतो यदैकस्मिन्नेव पक्षे तिथेवृद्धिर्हानिश्चापि भवति, यद्वा एकस्मिन् पक्षे वृद्धिरन्यस्मिंश्च पक्षे हानिर्भवति तदा तां वृद्धितिथिं गणयित्वैव तु "पण्णरसण्हं दिवसाणं" For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy