SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir लीलावतीकथा-कथाकोश-पञ्चलिङ्गी-षट्स्थानप्रकरणाद्यनेके ग्रन्थाः, वुद्धिसागरसूरिभिरपि निर्मिता बुद्धिसागरव्याकरणादयो ग्रन्थाः। तयोः शिष्यौ जिनचन्द्रा-भयदेवसूरी, तत्र जिनचन्द्रसूरिभिर्महतियाणगोत्रः प्रतिबोधितः संवेगरङ्गशालाख्यं प्रकरणं च विरचितं, श्रीमदभयदेवसूरिभिः "जय तिहुअणे"त्यादिस्तुतिद्वात्रिंशिकाकरणेन स्तम्भनपार्श्वजिनं प्रकटीकृत्य खकुष्ठमपगमितं स्थानाङ्गादिनवाङ्गानां पञ्चाशकादिप्रकरणानां च वृत्तिप्रभृतयोऽनेके | ग्रन्थाः सन्दर्भिताः, अतस्तेभ्यः प्रतिष्ठामापन्नः खरतरगच्छ, यदुक्तं-"पुरा श्रीपत्तने राज्यं, कुर्वाणे भीमभूपतीx। अभूवन भूतले ख्याताः, श्रीजिनेश्वरसूरयः॥१॥" "सूरयोऽभयदेवाख्या-स्तेषां पट्टे दिदीपिरे । येभ्यः प्रतिष्ठामापन्नो, गच्छः खरतराभिधः॥२॥" इत्यादि तपासोमसुन्दरसूरिप्रशिष्यसोमधर्मगणिभिः स्वोपज्ञोपदेशसप्ततिकायाम् ।। 'खः' सुखं भावसमाधिलक्षणं, तस्य 'रो' रक्षर्ण, तत्तरन्ति' कुर्वन्ति ये ते खरतराः ७। खादीनां-(नगरादीनां, निवासिन इति गम्यं,) ये जनास्तेषां 'रो' भयं, तत् (तस्यति)-विध्वंसयति यः स खरतः, ताइविधौ 'रो' ध्वनिः-सिद्ध-शुद्ध-प्रसिद्ध-विशुद्धसिद्धान्तवचननिर्व चनलक्षणो येषां ते खरतराः ८। 'खं' संवित्तत्र 'रता'तत्पराः खरताः-मुनिजनाः, तान् ‘रान्ति' सम्यगज्ञानादि ददन्ते ये ते खरतराः९। लखः ' खगः, तद्वत् 'राः' तीक्ष्णाः कुमतिमतिविदारणे ये ते खराः, 'तानां' तस्कराणां जिनमतप्रद्वेषिदृप्तकुवादिजनानां 'रा इव' वज्रा इव येते तराः, खराश्च ते तराश्च खरतराः १० x उक्तिस्त्वेषा सुचिरं राज्यशासनकालापेक्षिकैव, न तु वादकालापेक्षिका, न ह्यनेनास्तित्वाभावमपि च सियति तस्मिन्समये दुर्लभराजस्य, अनिर्णीतत्वादवसानकालस्य तस्येतिहासविद्भिः। For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy