SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिबुडे सङ्घदुक्खप्पहीणे ॥ १५१ ॥ समणस्स भगवओ महावीरस्स जाव सङ्घदुक्खप्पहीणस्स नव वाससयाई विइकंताई, दसमस्स य वाससयस्स अयं असीइमे कालगतः व्यतिक्रान्तः संसारात् 'समुयातः' सम्यगूर्ध्वं गतः, छिन्नानि जाति-जरा-मरण-बन्धनानि यस्य, तथा सिद्धो बुद्धो मुक्तः संसारान्तकृत् 'परिनिर्वृतः' कर्मसन्तापरहितः सर्वदुःखप्रहीणो जातः । १५२-श्रमणस्य भगवतो महावीरस्य यावत्सर्वदुःखप्रहीणस्य नव वर्षशतानि व्यतिक्रान्तानि, दशमस्य च वर्षशतस्य अयमशीतितमः संवत्सरः कालो गच्छति । यद्यप्येतस्य सूत्रस्य व्यक्तोऽर्थो न ज्ञायते, तथापि यथा पूर्वसूरिभिर्व्याख्यातं तथा व्याख्यायते, तथाहि अत्र केचिद्वदन्ति यत्कल्पसूत्रस्य पुस्तक लिख नकालज्ञापनायेदं सूत्रं श्रीमद्देवर्द्धिगणिक्षमाश्रमणैर्लिखितं, तथा चायमर्थः - वीरनिर्वाणादशीत्यधिके नव वर्षशतेऽतिक्रान्ते | सिद्धान्त लिखनसमये कल्पोऽपि पुस्तके लिखितः, यदुक्तं " x वल्लहपुरम्मि नयरे, देवढिपमुहसयलसंघेहिं । पुत्थे आगमु लिहिओ, नवसय असीआओ वीराओ ॥ १ ॥” अन्ये पुनः-- "नवशत अशीतिवर्षे, वीरात्सेनाङ्गजार्थमानन्दे । सङ्घसमक्षं समहं, प्रारब्धं वाचितुं विज्ञैः ॥ १ ॥” इत्यादिकल्पान्तर्वाच्यप्रमाणतः श्रीवीरनिर्वाणादशीत्यधिके नववर्षशतेऽतिक्रान्ते कल्पस्य सभायां वाचना जातेति ज्ञापयितुमिदं सूत्रं न्यस्तमिति वदन्ति, तत्त्वं पुनः केवलिनो विदन्ति । × वलभीपुरे नगरे, देवर्द्धिप्रमुखसकलसद्धैः । पुस्तके आगमो लिखितः, नवशताशीतौ वीरात् ॥ १ ॥ १-पदैकदेशे परसमुदायोपचाराद् ध्रुवसेनपुत्रशोकनिवृत्त्यर्थं । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy