SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir मस्स संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे, वइसाहसुद्धे, तस्स णं वइसाहसुद्धस्स दसमीपक्खे णं पाईणगामिणीए छायाए, पोरिसीए अभिनिविट्टाए, पमाणपत्ताए, सुवएणं दिवसेणं, विजएणं मुहुत्तेणं, जंभियगामस्स नगरस्स बहिया उज्जुवालियाए नईए तीरे, वेयावत्तस्स चेइअस्स अदूरसामंते, सामागस्स गाहावईस्स कट्रकरणसि, सालपायवस्स अहे, गोदोहियाए | उक्कुडुअनिसिज्जाए आयावणाए आयावेमाणस्स, छ?णं भत्तेणं अपाणपणं, हत्थुत्तराहिं नक्खत्तेणं जोगमुवागवणं, झाणंतरिआए वट्ट-1 "भद्रादिप्रतिमास्तिस्रो, द्वादशाष्टमभक्ततः। प्रतिमाश्चैकरात्रिक्यः, षष्ठानां द्वे शते तथा ॥४॥" "एकोनत्रिंशदधिक, तपः सर्व जलोज्झितम् । चतुर्थ नित्यभक्तं च, न कदाचिदभूत्पुनः॥५॥" "आसीदेकोनपश्चाशं, पारणाहः शतत्रयम् । व्रताहश्चेति षण्मासाः, पक्षो द्वादशवर्ण्यभूत् ॥ ६॥" एवं च त्रयोदशमस्य संवत्सरस्य 'अन्तरा' मध्ये वर्तमानस्य योऽसौ ग्रीष्मकालस्य द्वितीयो मासश्चतुर्थः पक्षो वैशाखशुद्धः, तस्य वैशाखशुद्धस्य दशम्याः पक्षे-दिवसे 'प्राचीनगामिन्यां' पूर्वदिग्यायिन्यां छायायां, पौरुष्यां पाश्चात्यायां 'अभिनिवृत्तायां जातायां, प्रमाणप्राप्तायां न तु न्यूनाधिकायां, सुव्रताख्ये दिवसे विजयाभिधे मुहर्ने, जृम्भिकग्रामाख्यस्य नगरस्य बहिस्तात् ऋजुवालुकाया नद्यास्तीरे 'व्यावृत्तस्य' जीर्णस्य 'चैत्यस्य' व्यन्तरायतनस्य यद्वा व्यावृत्ताख्यस्य चैत्यस्य 'अदूरसामन्ते' नातिदूरे नातिनिकटे श्यामाकस्य 'गाथापतेः' गृहस्थस्य "कहकरणंसि"त्ति क्षेत्रे सालपादपस्य अधो गोदोहिकया उत्कुटुकनिषद्ययोपविष्टस्य आतापनया आतापयतः प्रभोः षष्ठेन भक्तेन अपानकेन, वर्तमानस्य, हस्तोत्तरानक्षत्रेण सह चन्द्रस्य योगमुपागते सति For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy