SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा ० अथ वीरजिनतीर्थजीवानामपि वक्रजडत्वे दृष्टान्तद्वयमाह- केचिद्वीरतीर्थश्रमणा नटं नृत्यन्तं वीक्ष्याऽऽगताकल्पार्थ- * स्तथैव पृष्टा ऊचु:-'नटनृत्यं वीक्षमाणाः स्थिताः । ततो गुरुभिर्निषिद्धाः । पुनरन्यदा चिरादागताः पृष्टा वक्रबोधि न्याः तयाऽन्यान्यन्यान्युत्तराणि ददुः । निर्बन्धेन पृष्टाः 'नटीं नृत्यन्तीं वीक्षमाणाः स्थिताः' इत्युक्तवन्तः । गुरुभिरुपालब्धाः सन्तो गुरूनेव प्रत्युपालब्धुं प्रवृत्ताः, यथा - 'अस्माभिरज्ञैः किं ज्ञायते ?, यदा नटनृत्यनिषेधः कृतस्तदैव कथं न कृतो भवता नटीनृत्य निषेधोऽपि ?' । एतादृशा वक्रजडा इति प्रथमः । व्या० १ ॥ ६॥ कश्चिच्छ्रेष्ठितः पित्रा बहुशः शिक्ष्यमाणो 'वृद्धानां सम्मुखं न जल्पनीयं, प्रत्युत्तरं च न देयं' इत्यादिवचांसि वक्रत्वेन मनसि दधार । अन्यदा बहिर्गतेषु सर्वेषु स्वजनेषु 'पुनः पुनः शिक्षयन्तं पितरमद्य शिक्षयामी'ति विचिन्त्य द्वारं पिधाय स्थितः । आगतेषु पित्रादिषु बहुशः शव्यमानोऽपि न जल्पति न चोद्घाटयति । भित्तिमुल्लंघ्यान्तः प्रविष्टेन पित्रा हसन् दृष्टः, उपालब्धश्चाकथयत्- 'भवन्त एव तु कथयन्त्यहर्निशं यद्वृद्धानामुत्तरं न देयं । पित्रोक्तं- 'अरे !! ईर्ष्याया जनसमक्षमुत्तालतया च न जल्पनीय' । तेनोक्तं- 'वरं' । अन्यदा गृहेऽग्निर्लग्न, जनन्या प्रोक्तं- 'पुत्र ! तव जनकमाकारयापणादग्निविध्यापनाय' । गतः स आपणं, बहुजनान्तः स्थितं पितरं वीक्ष्य स्थितस्तूष्णीको घटिकैकां यावत् । ततः कर्णाभ्यर्णीभूय शनैरुक्तं- 'गृहेऽग्निर्लग्नोऽस्ति' । पित्रोक्तं- 'रे मूर्ख ! किमियत्कालं नोक्तवान् ?' । तेनोक्तं- 'भवद्भिरेव तूक्तं- 'जनसमक्षमुत्तालतया न वक्तव्यं । एतादृशा वक्रजडा भवन्तीति द्वितीयः । For Private And Personal Use Only पीठिका वक्रजडले दृष्टान्त द्वयम् । ॥६॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy