SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir वीरस्य विहार उपसर्गाश्च, वैयावृत्त्यभ्यर्थना शक्रस्य पर्युषणा० इतश्च कश्चिद् गोपः खबलीवन प्रभोरन्तिके मुक्त्वा गोदोहाय गृहं गतः, बलीवर्दाश्चरन्तो वने दूरङ्गताः, कल्पार्थ- Kगोप आगत्य प्रभुं पृष्टवान्-'देवार्य ! क मे बलीवर्दाः? । मौनवति च भगवति 'अयं न वेत्तीति वने गवेषयितुं गतः, बोधिन्याः बलीवास्तु चरन्तो निशाऽवशेषे खयमेव प्रभुपार्श्वमुपागताः, गोपोऽपि तत्रागतस्तान् दृष्ट्वा 'अहो जानताव्या०६ प्यनेन समग्रां रात्रिमहं भ्रामितः' इति क्रोधात् हलमुत्पाट्य प्रहर्तुं धावितः। तदैवावधिना ज्ञातवृत्तः शक्रस्त मशिक्षयत् । अथ च शक्रः प्रभुं विज्ञपयामास-'प्रभो! भूयांसस्तवोपसर्गा भवितारः, ततोऽहं द्वादशवर्षान ॥९ ॥ यावद्वैयावृत्त्यनिमित्तं भवदन्तिके तिष्ठामि । भगवतोक्तं-- "नो खलु देविंदा! एवं भूअं वा भवं वा भविस्सं वा, जन्नं अरहंता देविंदस्स वा असुरिंदस्स वा निस्साए केवलनाणं उप्पाडिंसु वा उप्पाडिंति वा उप्पाडिस्संति वा सिद्धिं वा वच्चंति, | किंतु अरहंता सएणं उहाणबलबीरियपुरिसकारपरकमेणं उप्पाडिंसु वा उप्पाडिंति वा उप्पाडिस्संति वा सिद्धिं वा वच्चंति ।" ___"इत्युक्तः खामिनो मातृ-प्वस्त्रीयं व्यन्तरं सुरम् । शक्रो निदेश्य रक्षायै, सिद्धार्थ स्वपदं ययौ ॥१॥" ततो भगवान् प्रातः 'कोल्लाक'सन्निवेशे 'बहुल विप्रगेहे 'मया सपात्रो धर्मः प्रज्ञापनीयः' इति प्रथमपारणकं| गृहस्थपात्रे परमानेन कृतवान् । तदा च-चेलोत्क्षेपः १ गन्धोदकवृष्टिः २ दुन्दुभिनादः ३ अहो दानमहो दानमित्युद्घोषणा ४ वसुधारावृष्टिश्चेति पश्चदिव्यानि प्रकटितानि, एषु वसुधाराखरूपमिदं____ नो खलु देवेन्द्र ! एवं भूतं वा भ(वति)व्यं वा भविष्य वा, यदईन्तो देवेन्द्रस्य वाऽसुरेन्द्रस्य वा निश्रया केवलज्ञानमुत्पादितवन्तो वा उत्पादयन्ति वा उत्पादयिष्यन्ति वा सिद्धिं वा व्रजन्ति, किन्त्वहन्तः खकेनोत्थानबलवीर्यपुरुषाकारपराक्रमेणोत्पादितवन्तो वा उत्पादयन्ति वा उत्पादयिष्यन्ति वा सिद्धिं वा व्रजन्ति । ॥९०॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy