SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir EXOXOXOXOXOXOXOXOXOXCXOXO सीआए, सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे, संखियचक्किय-नंगलिय-मुहमंगलिय-बद्धमाण-पूसमाण-घंटियगणेहिं ताहिं इट्टाहिं कंताहिं पियाहि मणुनाहि मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मियमहुरसस्सिरीयाहिं वग्गूहिं अभिनंदप्रमाणा अमिथुवमाणा य एवं वयासी ॥ ११५॥ महती वैजयन्ती, ततश्छत्रं, ततो मणिवर्णमयं सपादपीठं सिंहासनं, ततोऽष्टशतं आरोहरहितानां वरकुञ्जरतुरगाणां, ततस्तावन्तो घण्टापताकाभिरामाः शस्त्रपूर्णा रथाः, ततस्तावन्तो वरपुरुषाः, ततः क्रमेण चतुरङ्गं सैन्यं, ततो लघुपताकासहस्रमण्डितः सहस्रयोजनोचो महेन्द्रध्वजः, ततः खगकुन्ताद्यायुधग्राहाः, ततो हास्यनर्तनकारकाः कान्दर्पिकाश्च जय-जय-शब्दं प्रयुञ्जानाः, तदनन्तरं बहव उग्रा भोगा राजन्याः क्षत्रियास्तलवरा माडम्बिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहा देवा देव्यश्च भगवतः पुरतः प्रस्थिताः। । ततः सदेवमनुजासुरया 'परिषदा' जनसमूहेन 'समनुगम्यमानं सम्यगनुयायमानं, पुनः “अग्गे"त्ति अग्रतः 'शङ्खिकाः' शङ्खवादकाः, 'चाक्रिकाः' चक्रप्रहरणधराः 'नाङ्गलिकाः' गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भविशेषाः 'मुखमाङ्गलिकाः' मुखे प्रियभाषिणः 'वर्द्धमानाः' स्कन्धारोपितपुरुषा मनुजाः 'पुष्यमाणाः' मागधा मान्या वा, घण्ट्या चरन्तीति घाण्टिकाःराउलिया इति लोके, एतेषांगणैः परिवृतं प्रभुमिति शेषः, प्रक्रमात्कुल* महत्तरादयस्ताभिरिष्टाभिः कान्ताभिः प्रियाभिर्मनोज्ञाभिर्मनोऽमाभिरुदाराभिः कल्याणाभिः शिवाभिध-| न्याभिर्माङ्गल्याभिर्मितमधुरसश्रीकाभिर्वागभिः 'अभिनन्दन्तः' प्रशंसन्तः अभिष्टुवन्तश्च एवमवादिषुः। For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy