SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra XCXXX www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir | चिच्चा सुवण्णं चिचा धणं चिचा रजं चिञ्चा रहूं, एवं बलं वाहणं कोसं कोट्टागारं, चिच्चा पुरं चिच्चा अंतेउरं चिच्चा जणवयं, चिश्चा विपुल धण-कणग-रयण-मणि-मोत्तिय संख-सिल-प्पवाल- रत्तरयणमाइयं संतसारसावइजं, विच्छडुइत्ता विगोवइत्ता, दाणं दायारेहिं परिभारता दाणं दाइयाणं परिभाइत्ता ॥ ११४ ॥ विलोकयति । आभोग्य च त्यक्त्वा 'हिरण्यं' रूप्यं त्यक्त्वा सुवर्णं त्यक्त्वा धनं त्यक्त्वा राज्यं त्यक्त्वा राष्ट्रं, एवं 'बलं' सैन्यं वाहनं कोशं कोष्ठागारं त्यक्त्वा 'पुरं नगरं त्यक्त्वाऽन्तःपुरं त्यक्त्वा 'जनपदं' देशवासिजनं, त्यक्त्वा विपुलधन- कनक-रत्न- मणि-मौक्तिक शङ्ख- शिला- प्रवाल- रक्तरत्नादिकं सन्तं सारखापतेयं, पुनः 'बिच्छ' | विशेषेण त्यक्त्वा 'विगोप्य' तदेव द्रव्यं गुप्तं सद्दानातिशयात्प्रकटीकृत्य यद्वा कुत्सनीयमेतदस्थिरत्वादित्याद्युक्त्वा, तथा दीयते इति दानं धनं, तद् दायाय-दानार्थं आऋच्छन्ति-आगच्छन्तीति दायाराः - याचकास्तेभ्यः 'परिभाज्य' विभागैदत्त्वा यद्वा 'परिभाव्य' आलोच्य, एतेभ्य एतेभ्य इदमिदं दातव्यमिति विचार्येत्यर्थः, पुनः 'दानं' धनं 'दायिकेभ्यो' गोत्रिकेभ्यः 'परिभाज्य' विभागशो दत्त्वा, दीक्षार्थमुद्यतो जात इति गम्यः । अनेन सूत्रेण सांवत्सरिकदानप्रदानं सूचितं, तच्चैवम्-भगवान् दीक्षादिनात्प्राग्वर्षेऽवशिष्यमाणे प्रातर्वार्षिकं दानं दातुमारभते, तत्र सूर्योदयादारभ्य भोजनवेलापर्यन्तं अष्टलक्षाधिकां कोटिं सौवर्णिकानां प्रत्यहं ददाति, 'वृणुत वरं वृणुत वरं' इत्युद्घोषणापूर्वकं यो यन्मार्गयति तत्तस्मै दीयते तच्च सर्वं तिर्यग्जृम्भका देवाः शक्रा For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy